________________
७०
पार्श्वदेवगणिविरचिता नन्वस्य वाक्यस्य सूत्ररूपस्य सतो यदि पातनिकादिद्वारेण व्याख्या विधीयते तर्हि वाक्यशेष इति [पृ०२१ पं०१८] पदस्य पाठो न युक्तः । अध्याहारो हि सामर्थ्यलभ्यस्यार्थस्य शब्देन संकीर्तनमुच्यते । स च यदि मुख्यतयैव शब्देन पठ्यते न तदा वाक्याध्याहारो भण्यते । अत्रोच्यते । किल साध्यत्वेनेप्सित इत्येतत्पर्यन्तमेव पक्षलक्षणमुक्तं पूर्वाचायः । एतच्च प्रत्यक्षाद्यविरुद्ध इत्यस्य सापेक्षम् । ततो वार्तिककृता परिपूर्णपक्षलक्षणार्थं 5 वाक्यशेषोऽयमधीतः । ततश्च सवार्तिकं सूत्रं व्याख्यानयन् यथापठितमेवामुं वार्तिकावयवं 5 हरिभद्रसूरिर्व्याख्यातवान् । ततोऽस्य पातनिका वाक्यशेष इति अस्य पर्यायप्रदानं चादुष्टमिति ।
सांप्रतमित्यादि [पृ०२२ पं०८] । तंत्र इति हेतुविचारे । स च [पृ०२२ पं०९] स्वभाव-कार्या-ऽनुपलम्भाख्यस्त्रिप्रकारः। तत्र स्वभावः स्वसत्तामात्रभाविनि साध्यधर्मे हेतुर्भवति यथा वृक्षोऽयं शिंशपात्वादिति । कार्यं यथाऽग्निरत्र धूमादिति । अनुपलम्भो यथा न प्रदेशविशेषे क्वचिद् घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । एतेषु च द्वौ वस्तुसाधकौ। एकः प्रतिषेधहेतुर्विज्ञेयः । अमीषामेते साधर्म्यप्रयोगा दर्शिताः, तथा स्वभाव- " कार्यहेत्वो_धर्म्यप्रयोगौ व्यापकानुपलब्धि-कारणानुपलब्धिरूपौ वेदितव्यौ । यथा नात्र शिंशपा वृक्षाभावात् । नात्र धूमो वह्नयभावादिति । तथाहि-वृक्षाभावे न भवत्येव शिंशपा अग्न्यभावे न भवत्येव धूम इत्यनयोरपि वैधर्म्यप्रयोगयोापक-कारणानुपलब्धिप्रयोगोक्त एवार्थो नापरः कश्चिदिति । अनुपलब्धेस्तु वैधर्म्यप्रयोगो यथा- यत् सदुपलब्धिलक्षणप्राप्त
तदुपलभ्यत एव यथा नीलादिविशेषः, न चेहोपलब्धिलक्षणप्राप्तस्य घटस्योपलम्भ इति। 15 अयं चैकैकोऽपि त्रिरूपो वेदितव्य इत्याह-स च त्रिरूप इति। स चेति हेतुः स्वभावादिः। 15
10
१ स्यासतो J. ॥ २ तत्र हेतु J. ॥ ३ "त्रिरूपाणि च त्रीण्येव लिङ्गानि ॥ ११॥ उक्तेन त्रैरूप्येण त्रिरूपाणि च त्रीण्येव लिङ्गानीति । चकारो वक्तव्यान्तरसमुच्चयार्थः । त्रैरूप्यमादौ पृष्टं त्रिरूपाणि च लिङ्गानि परेण । तत्र त्रैरूप्यमुक्तम् । त्रिरूपाणि चोच्यन्ते । त्रीण्येव त्रिरूपाणि लिङ्गानि । त्रयस्त्रिरूपलिङ्गप्रकारा इत्यर्थः। कानि पुनस्तानीत्याह- . अनुपलब्धिः स्वभाव-कार्ये चेति ॥१२॥ प्रतिषे ध्यस्य साध्यस्यानुपलब्धिस्त्रिरूपा। विधेयस्य साध्यस्य स्वभावस्त्रिरूपः । कार्यं च । ___अनुपलब्धिमुदाहर्तुमाह- तत्रानुपलब्धिर्यथा न प्रदेशविशेषे, क्वचिद् घट: उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति ॥१३॥ यथेत्यादि । यथेत्युपप्रदर्शनार्थम् । यथेयमनुपलब्धिस्तथान्याऽपि, न त्वियमेवेत्यर्थः । प्रदेश' । एकदेशः। विशिष्यत इति 'विशेषः' प्रतिपत्तृप्रत्यक्षः । तादृशश्च न सर्वः प्रदेशः । तदाह-वचिदिति । प्रतिपत्तृप्रत्यक्षे कृचिदेव प्रदेशे इति धर्मी । न घटः इति साध्यम् । 'उपलब्धिः' ज्ञानम् । तस्याः ‘लक्षणं' जनिका सामग्री । तया ह्यनुपलब्धिर्लक्ष्यते। तत्प्राप्तोऽर्थो जनकत्वेन सामग्र्यन्तर्भावात् 'उपलब्धिलक्षणप्राप्तः' दृश्य इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org