________________
10
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूष्यते निरवद्यत्वात्तस्य इति । इत्युपरम्यते ।।
___टी० [२६], अधुना दूषणाभासमाह-अभूतसाधनदोषोद्भावनानि दूषणाभासोनि । अभूतमविद्यमानमेव तत्त्वतः साधनदोषं सामान्येनोद्भावयन्ति प्रकाशयन्ति यानि तानि जातित्वाद् दूषणाभासानि । एतदेव दर्शयति-संपूर्णसाधने व्यवयवे न्यूनत्ववचनम् । न्यूनमिदमित्येवंभूतम् । एवम् अदष्टपक्षे पक्षदोषवचनम् इत्यादि निगदसिद्धं यावद् एतानि दूषणाभासानि । किम् ? इत्यत आह-न ह्येभिः परपक्षो दूष्यते । कुतः ? निरवद्यत्वात् परपक्षस्य ।
इत्युपरम्यते शास्त्रकरणात् । 10 सू० [२७], पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये ।
यात्र युक्तिरयुक्तिर्वा साऽन्यत्र सुविचारिता ॥
॥ इति न्यायप्रवेशकसूत्रं समाप्तम् ॥ टी० [२७], शास्त्रपरिसमाप्तौ तत्स्वरूपप्रतिपादनायैवाह- पदार्थमात्रमित्यादि । पदार्थमात्रमिति साधनांदिपदोद्देशमात्रम् । आख्यातं कथितम् । आदौ
प्रथमम् । दिङ्मात्रसिद्धये न्यायदिङ्मात्रसिद्ध्यर्थम् । याऽत्र युक्तिरन्वयव्यतिरेक15 लक्षणा । अयुक्तिर्वा असिद्धादिभेदा । साऽन्यत्र प्रमाणसमुच्चयादौ । 15 सुविचारिता प्रपञ्चेन निरूपितेत्यर्थः ॥
न्यायप्रवेशकं यद् व्याख्यायावाप्तमिह मया पुण्यम् । न्यायाधिगमसुखरसं लभतां भव्यो जनस्तेन ॥
१. अभूतदोषोद्भावनानि अभूतम० J२॥ २. 'सानि युक्तिसंपूर्णे साधने न्यूनत्ववचनम् अदुष्टपक्षे 20 पक्षदोषवचनं सिद्धहेतुके असिद्धहेतुकं वचनम् एकान्तहेतुके असिद्धहेतुकं वचनम् अविरुद्धहेतुके 20
अनैकान्तहेतुकं वचनम् अविरुद्धहेतुके विरुद्धहेतुकं वचनम् अदुष्टदृष्टान्ते दुष्टदृष्टान्तवचनं दोषः। एतानि दूषणाभासानि । न ह्येभिः परपक्षो दुष्यते निरवद्यत्वात् तस्येत्युपरम्यते सूत्रम् । अभूत P२, A ॥ ३. प्रकाशयन्ति नास्ति ॥२॥ ४. यानि तानि नास्ति P३॥ ५. तदाभासत्वात् टि०J२॥ ६. 'भासमित्येतदेव दर्श' P२, A || ७. संपूर्णे साधने J२, P२ विना ॥ ८. पाठसिद्धम् टि०J२॥ ९. पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये । यात्र
युक्तिरयुक्तिर्वा सान्यत्र सुविचारिता ॥१॥ पदार्थमात्र' P२, A ॥ १०. 'दिपक्षोद्दे P२, A ॥ ११. समाप्ता 2 न्यायप्रवेशकटीका ।। छ। कृतिः सितांबराचार्यजिनभट्टपादसेवकस्याचार्य श्रीहरिभद्रस्येति ॥ ग्रंथप्रमाणं ५००। 25
९७॥छ। साहा श्री वछा भार्या बाई गुरुदे पु० साहसहिसकिरणेन भंडारे गृहीत्वा पु० वर्धमानशांतिदाशपरिपालनार्थं ॥ छ। -R
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org