________________
हरिभद्रसूरिविरचितटीकासहितं
टी० [२४], सांप्रतमनुमानाभासमाह - हेत्वाभासपूर्वकं हेत्वाभासनिमित्तं ज्ञानमनुमानाभासम्, व्यभिचारात् । एतदेव व्याचष्टे – हेत्वाभासो हि बहुप्रकार उक्तः असिद्धादिभेदेन । तस्मात् हेत्वाभासात् यदनुमेयेऽर्थे धर्मविशिष्टे धर्मिणि ज्ञानम् अव्युत्पन्नस्य असिद्धादिस्वरूपानभिज्ञेस्य भवति तदनुमानाभासमिति । उक्तं प्रत्यक्षादिचतुष्टयम् ।
5
10
15
20
५४
सू० [ २५ ], साधनदोषोद्भावनानि दूषणानि । साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । हेतुदोषोऽसिद्धाऽनैकान्तिक - विरुद्धत्वम् । दृष्टान्तदोष: साधनधर्माद्यसिद्धत्वम् । तस्योद्भावनं प्राश्निकप्रत्यायनं दूषणम् ।
टी० [२५], इदानीमुक्तशेषं दूषणमभिधातुकाम आह - साधनदोषोद्धावनानि दूषणौनि । प्रमाणदोषप्रकटनानीत्यर्थः । बहुवचननिर्देशः प्रत्येकमपि प्रतिज्ञदिदोषाणां दूषणत्वात् इति । "दोषानेव दर्शयति — साधनदोषो न्यूनत्वम् सामान्येन, विशेषेणाह - पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । प्रत्यक्षविरुद्धा प्रतिज्ञेत्येवमादि हेतुदोषः असिद्धानैकान्तिकविरुद्धत्वम् । असिद्धो हेर्तुरित्येवमादि । एवं दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम् । तस्योद्भावनमिति तस्य प्रत्यक्षविरुद्धहेत्वादेः प्रकाशनं प्राश्निकप्रत्यायनं न तूद्भावनमात्रमेव । इदं दूषणमिति सामान्येन दूषणजात्यनतिक्रमादेकवचनमिति । उक्तं दूषणम्।
15
१ सव्यभिचारात् P३ || २ ०ज्ञस्य तदनु० P२, A ॥ ३ ०णानि साधनदोषो न्यूनत्वम्, पक्षदोषः प्रत्यक्षादिविरुद्धत्वम्, हेतुदोषोऽ सिद्धानैकान्तिकविरुद्धत्वम्, दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम् तस्योद्भावनं प्राश्निकप्रत्यायनं दूषणमिति सूत्रम् । साधनदोषोद्भावनानि प्रमाणदोषप्रकटनानीत्यर्थः P२ A ॥ ४ ज्ञानदोषाणां J२ ॥ ५ विशेषमाह P२ A ॥ ६ ०रित्यादि P२, A ॥ ७ न तदुद्भा० २ ॥
5
सू० [२६], अभूतसाधनदोषोद्भावनानि दूषणाभासानि । संपूर्णसाधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोषवचनम् । सिद्धहेतुकेऽसिद्धहेतुकवचनम् । ऐकान्तिकहेतुकेऽनैकान्तिकहेतुकवचनम् । अविरुद्धहेतुके विरुद्धहेतुकवचनम् । अदुष्टदृष्टान्ते दुष्टदृष्टान्तवचनम् ।
20
Jain Education International
For Private & Personal Use Only
10
www.jainelibrary.org