________________
५३
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। प्रमाणार्भावनिराचिकीर्षयाऽऽह-सव्यापारवत्ख्याते: प्रमाणत्वमिति, सह व्यापारेण विषयग्रहणलक्षणेन वर्तत इति सव्यापारम् , प्रमाणमिति गम्यते । सव्यापारमेस्या विद्यत इति सव्यापारवती, ख्यातिरिति गम्यते । सव्यापारवती चासौ ख्यातिश्च
सव्यापारवत्ख्यातिः प्रतीतिः । तस्याः सव्यापारवंत्ख्यातेः प्रमाणत्वमिति । 5 एतदुक्तं भवति – विषयांकारं ज्ञानमुत्पद्यमानं विषयं गृह्णदेवोत्पद्यते इति प्रतीते: 5 ग्राहकाकारस्य प्रमाणतेति । अन्ये तु संश्चासौ व्यापारश्च सद्व्यापारः प्रमाणव्यवस्थाकारित्वात् सन्नित्युच्यते, सोऽस्या विद्यत इति सद्व्यापारवती, शेषं पूर्ववत्, व्याचक्षते । इत्युक्ते प्रत्यक्षानुमाने ।
सू० [२३], कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । यज्ज्ञानं 10 घटः पट इति वा विकल्पयतः समुत्पद्यते तदर्थस्वलक्षणाविषयत्वात् 10 प्रत्यक्षाभासम् ।
टी० [२३], अधुना प्रत्यक्षाभासमाह - कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । एतदेव ग्रहणकवाक्यं व्याचिख्यासुराह - यज्ज्ञानं घटः पट इति वा विकल्पयतः शब्दारूषितमुत्पद्यते । अर्थान्तरे सामान्यलक्षणे । तदर्थस्वलक्षणा15 विषयत्वात् सामान्यलक्षणविषयत्वादित्यर्थः । किम् ? प्रत्यक्षाभासम् । 15
सू० [२४], हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् । हेत्वाभासो हि बहुप्रकार उक्तः । तस्माद्यदनुमेयेऽर्थे ज्ञानमव्युत्पन्नस्य भवति तदनुमानाभासम् ।
१. ० भावं निराचिकीर्षुराह P३॥ २. मस्यां वि• P२, A, C || ३. • वत्याः ख्याते: P२, A, C॥ 20 ४. विषयनिर्भासम् टि० २॥ ५. अर्थग्रहणपरिणामस्य टि०J२॥ ६. सोऽस्यां P२, A || ७. वत्, अनुमानं 20
च । इत्युक्तं प्रत्यक्षम् । अधुना P२, A, C | ८ प्रत्यक्षाभासं यत् ज्ञानं घटः पट इति विकल्पयतः समुत्पद्यते तदर्थस्वलक्षणाविषयत्वात् प्रत्यक्षाभासं इति सूत्रम् । कल्पना• P२, A, C || ९. ग्राहकवाक्यं J२। ग्रहणवाक्यं R विना ॥ १०. शब्दारोपितं P२, A, C ॥ ११. उक्तं प्रत्यक्षाभासम् P२, A, C ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org