________________
५२
हरिभद्रसूरिविरचितटीकासहितं लक्षणस्य। उच्यते । कल्पनापोढं यज्ज्ञानमर्थे रूपादौ इत्यनेनार्थसाक्षात्कारिग्रहणान् मनोविज्ञानादेरपि तदव्यभिचारात् संगृहीतमेव तत् । लौकिकं तु प्रत्यक्षमधिकृत्याव्ययीभावः । इति कृतं प्रसङ्गेन । गमनिकामात्रमेतत्।।
सू [२२] अनुमानं लिङ्गादर्थदर्शनम् । लिङ्गं 5 पुनस्त्रिरूपमुक्तम् । तस्माद्यदनुमेयेऽर्थे ज्ञानमुत्पद्यतेऽग्निरत्र अनित्यः ।
शब्द इति वा तदनुमानम् । उभयत्र तदेव ज्ञानं फलमधिगमरूपत्वात्। सव्यापारवत्ख्याते: प्रमाणत्वमिति ।
सू० [२२], अनुमानमित्यादि । अनुमितिरनुमानम्, तच्च लिङ्गादर्थदर्शनम्, लिङ्गं पुनस्त्रिरूपमुक्तं पक्षधर्मत्वादि । तस्मात् त्रिरूपात् लिङ्गाद्यदनुमेयेऽर्थे 10 धर्मविशिष्टे धर्मिणि ज्ञानमुत्पद्यते, किंविशिष्टम्? अग्निरत्रानित्यः शब्द इति 10
वा, अग्निरत्र धूमात् अनित्यः शब्दः कृतकत्वात्, तदनुमानमिति एतदनुमानम्, उदाहरणद्वयं तु वस्तुसाधनकार्य-स्वभावाख्यहेतुद्वयख्यापनार्थम् । अधुना फलमाहउभयत्रेत्यादि। उभयत्र प्रत्यक्षेऽनुमाने च । तदेव ज्ञानं प्रत्यक्षा-ऽनुमानलक्षणम्।
फलं कार्यम् । कुतः? अधिगमरूपत्वात् । अधिगमः परिच्छेदः, तद्रूपत्वात् । 15 तथाहि-परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदादृते अन्यज्ञानफलम्। 15
भिन्नाधिकरणत्वात् ईंति, अत्र बहु वक्तव्यम्, अलं प्रसङ्गेन । सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । आह-यद्येवं प्रमाणाभावप्रसङ्गः, तद्भावाभिमतयोः प्रत्यक्षानुमानयोः फलत्वात् । प्रमाणाभावे च तत्फलस्याप्यभावः इति । अत्र
१. अनुमानं लिङ्गादर्थदर्शनम्, लिङ्गं पुनस्त्रिरूपमुक्तम् । तस्माद् यदनुमेयेऽर्थे ज्ञानमुत्पद्यते अग्निरत्र 20 अनित्यः शब्द इति वा तदनुमानम् । उभयत्र तदेव ज्ञानं फलम् अधिगमरूपत्वात् सव्यापारवख्याते: 20
प्रमाणत्वमिति सूत्रम् । अनुमिति P२, A ॥ २. तत् लि• P२, A ॥ ३. अस्मात्रिरूपलिंगाद् यद ७२ R. | तस्मात् त्रिरूपाद् यद० P३॥ ४. ज्ञानम्, किं विशिष्टम्, ? अग्निरत्र धूमात् अनित्यः शब्दः कृतकत्वात् तदनुमानमिति । उदाहरणद्वयं P२, A ॥ ५. व्त्वात् परिच्छेदरूपत्वात् । तथाहि P२, A, C ||६. व्यतिरेके
हेतुरयम् टि०७२ ॥ ७. यदि तु प्रमाणादन्यत् फलं स्यात् तदा भिन्नाधिकरणता न चैवमत्र । तस्मात् तदेव 25 प्रमाणं तदेव च प्रमाणफलम् टि०J२॥ ८. इति बहु J२॥ ९. प्रमाणाभावात् तस्याप्यभाव P२, A, C || 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org