________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। कल्पना वक्ष्यमाणलक्षणा, सा अपोढा अपेता यस्मात् तत् कल्पनापोढम् । समासाक्षेप-परिहारौ पूर्ववत् । कल्पनया वाऽपोढं कल्पनापोढं कल्पनाया वाऽपोढं कल्पनापोढम्। यत् इति तत्स्वरूपनिर्देशः । एवंभूतं चार्थस्वलक्षणमपि भवति,
अंत आह- ज्ञानं संवेदनम् । तच्च निर्विषयमपि भवति, अंत आह- अर्थे विषये। 5 स च द्विधा स्वलक्षण-सामान्यलक्षणभेदात् । अत आह- रूपादौ स्वलक्षणे 5 इत्यर्थः । इह यदुक्तं कल्पनापोटॅमिति तत् स्वरूपाभिधानत एव व्याचष्टे-नामजात्यादिकल्पनारहितम् । तत्र नामकल्पना यथा डित्थ इति । जातिकल्पना यथा गौरिति। आदिशब्दाद् गुण-क्रिया-द्रव्यपरिग्रहः । तत्र गुणकल्पना शुक्ल 'इति । क्रियाकल्पना पाचक इति । द्रव्यकल्पना दण्डीति । आभिः कल्पनाभी रहितं 10 शब्दरहितस्वलक्षणहेतुत्वात् । उक्तं च- न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन 10 तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन् [ ] इत्यादि। तदक्षमित्यादि। तदित्यनेन यन्निर्दिष्टस्य परामर्शः । अक्षाणीन्द्रियाणि। ततश्चाक्षमक्षं प्रतीन्द्रियमिन्द्रियं प्रति वर्तत इति प्रत्यक्षम् । आह- यथेन्द्रियसामर्थ्याज्ज्ञान-मुत्पद्यते तथा विषयसामर्थ्यादपि, तत् कस्मादिन्द्रियेणैव व्यपदेशो न विषयेणेति ?। अत्रोच्यते। 15 असाधारणत्वादिन्द्रियस्य साधारणत्वाच्चार्थस्येति । तथाहि- इन्द्रियमिन्द्रिय- 15 विज्ञानस्यैव हेतुरित्यसाधारणम् । अर्थस्तु मनोविज्ञानस्यापीति साधारणः । असाधारणेन च लोके व्यपदेशप्रवृत्तिर्यथा भेरीशब्दो यवाकुर इति। उक्तं च भदन्तेनअसाधारणहेतुत्वादक्षैस्तद् व्यपदिश्यते [प्रमाणसमु०९/४] इत्यादि। आहमनोविज्ञानाद्यपि प्रत्यक्षमुंक्तम्, · न च तदनेन संगृहीतमिति कथं व्यापिता
20
१. अपेता तत् J२मू०। अपेता यस्मिन् तत् सं. R विना ॥ २. प्राग्वत् P३॥ ३. [कल्पनायाः । J२सं. ॥] कल्पनया वाऽपोढं कल्पनापोढं । यत् J२, R. ॥ ४. अचेतनं टि० P२। अचे[ त ]नमप्यर्थस्वलक्षणं भवति टि०J२॥ ५. एतदाह J२॥ ६. द्विचन्द्रादिविषयमपि टि०J२॥ ७. एतदाह २॥ ८ 'ढं एतत् स्वरूपाद्यभिधा ३२ ।। ९. 'रहितं तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम् । तत्र P२, ॥ १०. इति : ११. इत्यादि J२॥ १२. "रहितं स्वलक्षणं R. पञ्जिकां विना ॥१३. 'मिन्द्रियजविज्ञा' P२. ॥ १४. शवत्तिः २ ॥ १५. यद्यपि भेर्याः शब्दे पुरुषप्रयत्नादिकारणानि सन्ति तथापि भेर्येव असाधारणत्वेन गुणेन व्यपदिश्यते । तथा यवोऽपि असाधारणत्वात् तथैव टि० २॥ १६. शब्दोऽयं यवा० P२, A || १७. मित्युक्तं J२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org