________________
5
हरिभद्रसूरिविरचितटीकासहितं टी० [१९], निगमयन्नाह- एषामित्यादि, एषां यथोक्तरूपाणां पक्षहेतुदृष्टान्ताभासानां वचनानि । किम् ? न साधनम् आभासत्वादेव । किं तर्हि ? साधनाभासमिति । उक्तं साधनाभासम् ।
सू० [२०], आत्मप्रत्यायनार्थं तु प्रत्यक्षमनुमानं च द्वे एव 5 प्रमाणे प्रतिपादनीरो।
टी० [२०], अधुना दूषणस्यावसरः, तच्चातिक्रम्य बहुतरवक्तव्यत्वात् प्रत्यक्षा-ऽनुमाने तावदाह- आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं चे द्वे एव प्रमाणे। प्रत्यक्षं वक्ष्यमाणलक्षणम् अनुमानं च । असमासकरणं विभिन्नविषय
ज्ञापनार्थम् । स्वलक्षणविषयमेव प्रत्यक्षम् । सामान्यलक्षणविषयमेवानुमानम् । 10 चः समुच्चये । द्वे एव प्रमाणे इत्यनेन संख्यानियममाह । तथाहि- बौद्धानां द्वे 10
एव प्रमाणे प्रत्यक्षाऽनुमाने । शेषप्रमाणानामत्रैवान्तर्भावात् । अन्तर्भावश्च प्रमाणसमुच्चयादिषु चर्चितत्वान्नेह प्रतन्यत इति ।
सू० [२१], तत्र प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादौ नामजात्यादिकल्पनारहितं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम् । 15 टी० [२१], अधुना प्रत्यक्षनिरूपणायाह - तंत्र प्रत्यक्षमित्यादि । तत्रेति 15
निर्धारणार्थः । प्रत्यक्षमिति लक्ष्यनिर्देशः । कल्पनापोढमिति लक्षणम् । अयं प्रत्यक्षस्य लक्ष्य-लक्षणप्रविभागः । तत्र प्रतिगतमक्षं प्रत्यक्षम् । कल्पनापोढमिति,
१ एषां पक्षहेतुदृष्टान्ताभासानां वचनानि न साधनम् साधनाभासम् । एषां यथोक्त 'P२, A ॥ २ एषां नास्ति J२॥ ३ नं तदाभासत्वादेव ७२ ॥ ४ उक्तः साधनाभासः ॥२॥ ५ तु ॥२॥ ६ प्रमाणे प्रतिपादनीये 20 P२, A ॥ ७ ०णं भिन्न P२, A, R. ॥ ८ लक्षणमेवा. J२, P३ A॥ ९ • वादिति J२ विना॥ १० 20
दिचर्कि २ P३॥ १ तत्र प्रत्यक्षं कल्पनापोडं [अभ्रान्तं टि० P२] यज्ज्ञानमर्थे रूपादौ नामजात्यादिकल्पनारहितं तदक्षमक्षं प्रति वर्तते इति प्रत्यक्षम्। तत्रेति P२, A॥ १२ प्रत्यक्षं लक्ष्य J२मू०। प्रत्यक्षस्य लक्ष्य Jरसं०। प्रत्यक्षस्य नास्ति P२,३, A ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org