________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। उभयाव्यावृत्तः आकाशवदिति । नित्यत्वसाधकः प्रयोगः परमाण्वादिसाधर्म्यदृष्टान्तयुक्तः पूर्ववत् । वैधर्म्यदृष्टान्तस्त्वाकाशमिति । ततो हि आकाशात् । न नित्यत्वं व्यावृत्तं नाप्यमूर्तत्वं व्यावृत्तम् । कुतः ? नित्यत्वादमूर्तत्वाच्चा
काशस्येति। 5 अव्यतिरेक इत्यादि । अविद्यमानो व्यतिरेक: अव्यतिरेकः, अनिदर्शित- 5
व्यतिरेक इत्यर्थः । लक्षणमाह- यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते । यत्रेत्यभिधेयमाह । विना साध्यसाधननिवृत्त्या प्रस्तुतप्रयोगे यदनित्यं तन्मूर्तं दृष्टमित्यादिलक्षणया । तद्विपक्षभावः साध्य-साधनविपक्षभावमात्रम् ।
निदर्श्यते प्रतिपाद्यते इति यावत् । दृष्टान्तमाह-यथा घटेऽनित्यत्वं मूर्तत्वं च 10 दृष्टमिति । इत्थं ह्येकत्राभिधेयमात्राभिधानाद् वैधाप्रतिपादनादर्थापत्त्यादिगम्यत्वे 10 प्रतिपत्तिगौरवादिष्टार्थासाधकत्वमिति ।
विपरीतव्यतिरेक इत्यादि । विपरीतो विपर्यस्तो व्यतिरेक उक्तलक्षणो यस्मिन् स तथाविधः । तमेव दर्शयति- यदनित्यमित्यादि । प्रस्तुतप्रयोग एव
तथाविधसाधर्म्यदृष्टान्तयुक्ते व्यतिरेकमुपदर्शयन् यदनित्यं वस्तु तन्मूर्तं दृष्टमिति 15 वक्तव्ये यन्मूर्तं तदनित्यं दृष्टमिति ब्रवीति । आह- एवमपि को दोषः ? 15 इति। उच्यते । अन्यत्र व्यभिचारः । तथाहि-अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यत्र यदप्रयत्नानन्तरीयकं तन्नित्यमिति व्यतिरेके विद्युता व्यभिचारः ।
सू० [१९], एषां पक्षहेतुदृष्टान्ताभासानां वचनानि न साधनम्, साधनाभासाः । 20 १. 'वदिति। यदनित्यं तन्मूर्तं दृष्टं यथाकाशमिति ततो नित्यत्वममूर्तत्वं च न व्यावृत्तं 20
नित्यत्वादमूर्तत्वाच्चाकाशस्येति सूत्रम् । नित्यत्वसाधकः P२, A ॥ २. प्राग्वत् P३॥ ३. व्यावृत्तं नास्ति P२,३,A ॥ ४. कुतः नास्ति J२, P३ ॥ ५. त्वादाका २३ ॥ ६. अव्यतिरेको यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते यथा घटेऽ नित्यत्वं मूर्तत्वं च दृष्टमिति सूत्रम् । अविद्यमानव्यतिरे को P२, A ॥ ७. 'विपक्षमात्रम् J२ ॥ ८. विपरीतव्यतिरेको यथा यदनित्यं तन्मूर्तं दृष्टमिति वक्तव्ये यन् मूर्तं तदनित्यं दृष्टमिति 25 ब्रवीति सूत्रम् । विपरीतो P२, A ||
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org