________________
४८
हरिभद्रसूरिविरचितटीकासहितं विपरीतव्यतिरेको यथा- यदनित्यं तद् मूर्तं दृष्टमिति वक्तव्ये यद् मूर्तं तदनित्यं दृष्टमिति ब्रवीति ।
टी० [१८], तंत्र साध्याव्यावृत्तः यथा नित्यः शब्दोऽ मूर्तत्वात् परमाणुवत् । यथेत्युदाहरणोपन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा । 5 अमूर्तत्वादिति हेतुः । वैधर्म्यदृष्टान्ताभासस्य प्रक्रान्तत्वात् साधर्म्यदृष्टान्तो नोक्तः। 5
अभ्यू ह्य श्चाऽऽकाशादिः । वैधर्म्य दृष्टान्तस्तु परमाणुः । अयं च साध्यसाधनोभयधर्मविकलः सम्यगिष्यते । यत उक्तम्- साध्याभावे हेतोरभाव एव कथ्यते [ न्यायप्र०पृ०३ पं.९] इत्यादि। न चायं तथेति, आह च- परमाणोर्हि
सकाशात्। साधनधर्मो हेतुः । तमेव दर्शयति- अमूर्तत्वमिति । व्यावृत्तं 10 निवृत्तम्। कुतः ? मूर्तत्वात् परमाणूनाम्। साध्यधर्मो नित्यत्वं तन्न व्यावृत्तम्। 10
कुतः ? नित्यत्वात् परमाणूनाम् । आह- साधर्म्यदृष्टान्ताभासेष्वादौ साधनधर्मासिद्ध उक्तः, इह तु साध्याव्यावृत्त इति किमर्थम्? उच्यते, तस्यान्वयप्रधानत्वात्। अन्वयस्य च साधनधर्मपुर:सरसाध्यधर्मोच्चारणरूपत्वात् । व्यतिरेकस्तु
उभयव्यावृत्तिरूपः, यत उक्तम्- साध्याभावे हेतोरभावः [ न्यायप्र०पृ०३५०९] 15 इति । अंतः साध्याव्यावृत्तः इति।
15 तथा सांधनाव्यावृत्तः कर्मवत् । प्रयोगः पूर्ववदेव । वैधर्म्यदृष्टान्तस्तु कर्म । तच्च उत्क्षेपणादि परिगृह्यते । तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तं निर्वृत्तम् । अनित्यत्वात् कर्मणः । साधनधर्मो हेतुः, तमेव दर्शयति अमूर्तत्वमिति। तद् न व्यावृत्तम् । कुतः ? अमूर्तत्वात् कर्मण इति ।
20
१. अत्र P२, A ॥ २. 'यथोदाहJ२॥ ३. च नास्ति J२॥ ४. तु नास्ति V॥ ५. 'यव्यावृत्त P३ ॥ 20 ६. यत उक्तं नास्ति P३, . ॥ ७ 'वे च हेतो P२, P३, A, R. ॥ ८. अतः प्रथमं साध्या' ७२, R. ॥ ९. साधनाव्यावृत्तः कर्मवत् यदनित्यं तन्मूर्तं दृष्टं यथा कर्म, तत्र कर्मण: साध्यं नित्यत्वं व्यावृत्तम् अनित्यत्वात् कर्मणः, साधनधर्मोऽमूर्तत्वं च न व्यावृत्तम् अमूर्तत्वात् कर्मण: सूत्रम्। प्रयोग: P२, A ॥ १०. निवृत्तं नास्ति P२,३, A॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org