SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। ४७ सू० [१७], वैधयेणापि दृष्टान्ताभासः पञ्चप्रकारः । तद्यथा-साध्याव्यावृत्त: १, साधनाव्यावृत्तः २, उभयाव्यावृत्तः ३, अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ५ ॥ टी० [१७], वैधयेणापि । न केवलं साधर्म्यणैव । किम् ? 5 दृष्टान्ताभासः प्रानिरूपितशब्दार्थः पञ्चप्रकारः, तद्यथा- साध्याव्यावृत्त 5 इत्यादि। तत्र साध्यं प्रतीतम्, तदव्यावृत्तमस्मादिति साध्याव्यावृत्तः । आक्षेपपरिहारौ पूर्ववत्। एवं साधनोभयाव्यावृत्तयोरपि वक्तव्यम् । अव्यतिरेकादिशब्दार्थं तूदाहरणाधिकार एव वक्ष्यामः । स चावसरप्राप्त एव । सू० [ १८ ], तत्र साध्याव्यावृत्तो यथा- नित्यः शब्दोऽमूर्त10 त्वात् परमाणुवत् । यदनित्यं तन्मूर्तं दृष्टं यथा परमाणुः। परमाणोर्हि 10 साध्यं नित्यत्वं न व्यावृत्तं नित्यत्वात् परमाणूनाम् । साधनधर्मोऽमूर्तत्वं नास्ति मूर्त्तत्वात् परमाणूनाम् । - साधनाव्यावृत्तः यथा- कर्मवदिति । तत्र कर्मणः साध्यं नित्यत्वं व्यावृत्तम्, अनित्यत्वात् कर्मणः । साधनधर्मोऽमूर्तत्वं न 15 व्यावृत्तम् अमूर्तत्वात् कर्मणः । 15 उभयाव्यावृत्तः आकाशवदिति तत्सत्त्ववादिनं प्रति । ततो हि नित्यत्वममूर्तत्वं च न व्यावृत्तम्, नित्यत्वादमूर्तत्वाच्चाकाशस्य ।। अव्यतिरेको यत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्शाते, यथा घटे अनित्यत्वं मूर्तत्वं च दृष्टमिति । 20 १. 'वैधज्रेणापि पञ्चधा। न केवलं साधये॒णैव। किम् ? दृष्टान्ताभासः प्राड्रूिपितशब्दार्थ: 20 वैधयेणापि पञ्चप्रकार: । तद्यथा-साध्याव्यावृत्तः१, साधनाव्यावृत्त: २, उभयाव्यावृत्त: ३, अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ५, तत्र साध्याव्यावृत्तो यथा नित्यः शब्दोऽमूर्त्तत्वात् परमाणुवत्, यदनित्यं तन्मूर्त दृष्टं यथा परमाणुः, परमाणौ हि साधनधर्मोऽमूर्तत्वं व्यावृत्तं मूतत्वात् परमाणूनामिति, साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात् परमाणूनामिति सूत्रम् । P२, A ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy