________________
४६
हरिभद्रसूरिविरचितटीकासहितं धर्मोऽमूर्तत्वलक्षणोऽस्त्यनित्यत्वान्मूर्तत्वाच्च घंटस्येति । तथा आकाशवदित्यविद्यमानोभयासिद्धः । नित्यः शब्दोऽभूतत्वादाकाशवदिति । अयमुभयसद्भावात् कथमुभयासिद्ध इत्याशक्याह- तदसत्त्ववादिनं प्रति, आकाशासत्त्ववादिनं बौद्धं प्रति सांख्यस्येत्यर्थः । सति हि तस्मिन्नित्यत्वादिधर्मचिन्ता नान्यथेति ।। 5 अनन्वय इत्यादि । अविद्यमानान्वयोऽनन्वयः अप्रदर्शितान्वय इत्यर्थः । 5.
अन्वयोऽनुगेमो व्याप्तिरिति अनर्थान्तरम् । लक्षणमाह- यत्रेत्यादि । यत्रेत्यभिधेयमाह। विनाऽन्वयेन विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः सहभाव एकत्रवृत्तिमात्रम् । प्रदर्श्यते कथ्यते आख्यायते, न वीप्सया
साध्यानुगतो हेतुरिति। उदाहरणमाह- यथा घटे कृतकत्वमनित्यं च दृष्टमिति। 10 घटः कृतकत्वा-ऽनित्यत्वयोराश्रय इति । एवं सति आश्रयाश्रयिभावमात्रा- 10 भिधानादन्यत्र व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः इति।
विपरीतान्वय इत्यादि । विपरीतो विपर्यस्तवृत्तिरन्वयोऽनुगमो यस्मिन् स तथाविधः । उदाहरणमाह-यथा यत् कृतकं तदनित्यं दृष्टमित्येवं वक्तव्ये
यदनित्यं तत् कृतकमिति ब्रवीति । प्राक् साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति। 15 आह– एवमपि को दोषः ? इति । उच्यते । न्यायमुंद्राव्यति-क्रमः । अन्यत्र 15
व्याप्तिव्यभिचारात् । तथाहि-अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि-त्यत्र यद्यदनित्यं न तत्तत् प्रयत्नानन्तरीयकम्, अनित्यानामपि विद्युदादीनामप्रयत्नानन्तरीयकत्वात्। इत्यलं प्रसङ्गेन । अयं साधर्म्यण दृष्टान्ताभासवर्ग इति ।
१. 'णोऽनित्य' J२ ॥ २. घटस्य तथा P२, A ॥ ३. "सिद्धः ततश्च नित्य: V॥ ४. अनन्वयो यत्र 20 विनान्वयेन साध्यसाधनयोः सहभाव: प्रदर्श्यते यथा घटे कृतकत्वमनित्यत्वं च दृष्टमिति सूत्रम् । अविद्यमाना' 20
P२, A ॥ ५. 'गम इत्यनर्था P२, A॥ ६. 'प्तिप्रद P२, A, R. || ७. 'यते च न J२॥ ८. 'गतहेतुः उदा' P२, A॥ ९. विपरीतान्वयो यथा यत्कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति। विपरीतो P२, A॥ १०. विपर्यवृत्ति P२, A॥ ११. उदाहरणमाह यथा नास्ति J२ ॥ १२. “मिति P२, A.V ॥ १३. 'द्राति' J२, P२, A ॥ १४. न नास्ति P२, A, R. || १५. 'भासः समाप्त: V॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org