________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्।
४५ अनन्वयो यत्र विनाऽन्वयेन साध्य-साधनयोः सहभावः प्रदर्श्यते। यथा घटे कृतकत्वमनित्यत्वं च दृष्टमिति ।
विपरीतान्वयो यथा । यत् कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत् कृतकं दृष्टमित्याह । अयं साधर्म्यण दृष्टान्ताभासः। 5 टी० [१६], तत्र साधनधर्मासिद्धो यथा- नित्यः शब्दोऽमूर्तत्वात्। 5
परमाणुवत् । यथेत्युदाहरणोपन्यासार्थः । नित्यः शब्द इति प्रतिज्ञा। अमूर्तत्वादिति हेतुः । अन्वयमाह- यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा परमाणुरिति साधर्म्यदृष्टान्तः। एतदाभासानामेव प्रक्रान्तत्वात् नार्थो वैधhणेति न प्रदर्शितः । अयं च
साध्यसाधनधर्मानुगत इष्यते । इह तु साध्यधर्मोऽस्ति न साधनधर्मः । तथा चाह10 परमाणौ हि साध्यं नित्यत्वमस्ति । अन्त्यकारणत्वेन नित्यत्वात् । साधनधर्मो- 10 ऽमूर्तत्वं नास्ति । कुतः ? मूर्तत्वात् परमाणूनाम् । मूर्तत्वं च मूर्त्ततत्कार्यघटाद्युपलब्धेः सिद्धमिति । ___ साध्यधर्मासिद्धो यथा-नित्यः शब्दोऽमूर्तत्वाद् बुद्धिवत्, प्रयोगः सुगम एव । व्याप्तिं तु दर्शयति- यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः । आह15 कथमयं साध्यधर्मासिद्धः ? इति । अत्राह- बुद्धौ हिँ साधनधर्मोऽमूर्तत्वमस्ति। 15 तदमूर्तत्वप्रतीतेः । साध्यधर्मो नित्यत्वं नास्ति । कुतः ? । अनित्यत्वाद् बुद्धेरिति ।
उभयासिद्धो द्विविधः । कथम् ? इत्यत्राह । सन्नसंश्चेति । सन्निति विद्यमानोभयासिद्धः । असन्निति अविद्यमानोभयासिद्धः । प्रयोगो मौल एव
द्रष्टव्यः। यत आह- तत्र घटवदिति विद्यमानोभयासिद्धः । ततश्च नित्यः 20 शब्दोऽमूर्तत्वाद् घटवदित्यत्र न साध्यधर्मो नित्यत्वलक्षणः नापि साधन- 20
१. प्रतिज्ञा पक्षः। P२, A ॥ २. 'नामिति मूर्त्तत्वं च मूर्तिमत्का P२, A ॥ ३. 'वदिति यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः । बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति साध्यधर्मो नित्यत्वं नास्ति अनित्यत्वाद् बुद्धेरिति सूत्रम्, प्रयोगः सुगम एव P२,A || ४. हि नास्ति P२, A ॥ ५. उभयासिद्धो द्विविधः सन्नसंश्चेति । तत्र
घटवदिति विद्यमानोभयासिद्धः अनित्यत्वाद घटस्य, आकाशवदिति अविद्यमानोभयासिद्धः तदसत्त्ववादिनं 25 प्रति सूत्रम् । उभयासिद्धो P२, A ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org