________________
४४
हरिभद्रसूरिविरचितटीकासहितं सू० [१५], तत्र साधर्येण तावद् दृष्टान्ताभासः पञ्चप्रकारः। तद्यथा- साधनधर्मासिद्धः १, साध्यधर्मासिद्धः २, उभयधर्मासिद्धः ३, अनन्वयः ४, विपरीतान्वयश्चेति ५ ।
टी० [१५], तत्र साधर्म्यण तावद् दृष्टान्ताभासः पञ्चप्रकार: पञ्चभेदः, 5 तद्यथा- साधनधर्मासिद्ध इत्यादि । तद्यथेति भेदोपदर्शनार्थः । साधनधर्मो 5 हेतुरसिद्धो नास्तीति भण्यते । ततश्च साधनधर्मोऽसिद्धोऽस्मिन् सोऽयं साधनधर्मासिद्धः। ननु बहुव्रीहौ निष्ठान्तं पूर्वं निपततीति कृत्वाऽसिद्धसाधनधर्म इति स्यात्। न, वाऽऽहिताग्न्यादिषु [ पा०२।२।३७] वचनात् । आहिताग्न्यादेश्चा
कृतिगणत्वाद् विकल्पवृत्तेरिति। अन्ये तु साधनधर्मेण रहितत्वादसिद्धः 10 साधनधर्मासिद्धः इति व्याचक्षते । न चैतदतिशोभनम् । एवं 10
साध्योभयधर्मासिद्धयोरपि भावनीयम् । अनन्वयादिशब्दार्थं तूदाहरणाधिकारे एव वक्ष्यामः । स चावसरप्राप्त एवेति यथाक्रमं निर्दिश्यते ।
. सू० [१६], तत्र साधनधर्मासिद्धो यथा- नित्यः शब्दोऽमूर्तत्वात् परमाणुवत् । यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा परमाणुः। 15 परमाणौ हि साध्यं नित्यत्वमस्ति साधनधर्मोऽमूर्तत्वं नास्ति मूर्तत्वात् 15 परमाणूनामिति ।
साध्यधर्मासिद्धो यथा- नित्यः शब्दोऽमूर्तत्वाद् बुद्धिवत् । यदमूर्तं वस्तु तन्नित्यं दृष्टं यथा बुद्धिः इति । बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति साध्यं नित्यत्वं नास्ति, अनित्यत्वाद् बुद्धेः । 20 उभयासिद्धो द्विविधः- सन्नसंश्चेति । तत्र घटवदिति 20 विद्यमानोभयासिद्धः, अनित्यत्वान्मूर्तत्वाच्च घटस्य । आकाशवदित्यविद्यमानोभयासिद्धः तदसत्त्ववादिनं प्रति ।
१. ति उच्यते V॥ २. ननु च बहु ०P२, A। न च बहु P३॥ ३. साधनधर्मा P२, A, R. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org