Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 102
________________ ७४ पार्श्वदेवगणिविरचिता धर्ममात्रे धर्मिणि वा वर्तते साध्यशब्दस्ततो यदा धर्ममात्रे वर्तते तदा कर्मधारयः कार्यः । यदा तु धर्मिणि वर्तते तदा तु साध्यस्य धर्म [पृ०२३ पं०९] इति समसनीयम्। यदुक्तम् समुदायस्य साध्यत्वाद् धर्ममात्रेऽथ धर्मिणि । अमुख्येऽप्येकदेशत्वात् साध्यत्वमुपचर्यते [ ]॥ अत एवाग्रे षष्ठीतत्पुरुषमपि वक्ष्यति-अथवोपचारवृत्त्येत्यादिना [पृ०२३ पं०८]। , तत्र सममित्यादि [पृ०२३ पं०६]। अस्येति घटादेः, पक्षेण सह शब्दादिनेति समानः, अर्थो घटादिरिति । वस्तुसत्तासमाविष्टमभिधेयमर्थ इह गृह्यते, न तु वचनमात्रमिति [पृ०२३ पं०७] । न त्वभिधेयसत्ताऽसमाविष्टमभिधेयं खरविषाणादिकमित्यर्थः । अथोपचाराभावे मुख्यतः साध्यशब्दवाच्यं किमित्याह- अनुपचरितं त्विति असमारोपितमित्यर्थः । ननु साध्यधर्मसामान्येनेत्यादिवाक्ये [पृ०२२ पं०३] किमवधार्यते ? । उच्यते । ' 'साध्यधर्मसामान्येन समान एव' इत्यवधार्यम्, न तु 'साध्यधर्मसामान्येनैव' इत्येवम् । यतो न स कश्चिदर्थोऽस्ति यः साध्यधर्मेणैव केवलेन समानः कल्पितव्यावृत्तिवशात् सर्वस्यानेकधर्मयोगात् । साध्यानित्यत्वसमानत्वादिति [पृ०२३ पं०१३]। शब्दे साध्यं यदनित्यत्वं तेन समानत्वाद् घटादेरप्यनित्यत्वविशिष्टत्वाद् । उभयत्रापि दृष्टान्ते साध्यधर्मिणि 15 चानित्यत्वसद्भावात् समानतेति । यस्मिन्नर्थे [पृ०२३ पं०१५] इति आकाशादावित्यर्थः । 15 यदि विपक्षे साध्यं नास्ति तर्हि किं तत्र साधनमस्तीत्याह- इह चेत्यादि [पृ०२३ पं०१६] । तत्र हीत्यादि [पृ०२३ पं०१९] । तत्र हि विपक्षे आकाशादावनित्यत्वाभावात् कृतकत्वाभावः 'व्यापकं निवर्तमानं व्याप्यमादाय निवर्तते' इति न्यायात् । सांप्रतमित्यादि [पृ०२३ पं०२०] । तत्रेति निर्धारणे [पृ०२३ पं०२०] । तत्र तेषु पक्षादिषु मध्ये पक्षधर्मत्वादिगुणेन हेतोः स्वरूपं निर्धार्यत इत्यर्थः । कृतकत्वमित्यत्र 20 संज्ञायां कन् [पृ०२४ पं०१] । संज्ञामेवाह- अपेक्षितेत्यादि [पृ०२४ पं०२] । अपेक्षित: 20 परेषां कुलालादीनां व्यापारो येन घटादिना स तथा । भावो घटादिः । स्वभावनिष्पत्तौ आत्मसत्तानिष्पत्तावित्यर्थः । द्वितीयेत्यादि [पृ०२४ पं०६] । सपक्षस्यैकदेशे वृत्तिरस्य स तथा । यतोऽनित्यत्वविशिष्टेषु सर्वेषु धर्मिषु न वर्तते व्याप्त्या प्रयत्नानन्तरीयकत्वम्, अपि तु केषुचिदेव न घटादिषु, न विद्युदादिषु । अथ च साध्यानित्यत्वसमानत्वाद् विद्युदादिरपि सपक्षः। १ °षाणमित्यर्थः c. ॥ २ कल्प्यते व्यावृ. c. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192