________________
७४
पार्श्वदेवगणिविरचिता धर्ममात्रे धर्मिणि वा वर्तते साध्यशब्दस्ततो यदा धर्ममात्रे वर्तते तदा कर्मधारयः कार्यः । यदा तु धर्मिणि वर्तते तदा तु साध्यस्य धर्म [पृ०२३ पं०९] इति समसनीयम्। यदुक्तम्
समुदायस्य साध्यत्वाद् धर्ममात्रेऽथ धर्मिणि । अमुख्येऽप्येकदेशत्वात् साध्यत्वमुपचर्यते [ ]॥ अत एवाग्रे षष्ठीतत्पुरुषमपि वक्ष्यति-अथवोपचारवृत्त्येत्यादिना [पृ०२३ पं०८]। ,
तत्र सममित्यादि [पृ०२३ पं०६]। अस्येति घटादेः, पक्षेण सह शब्दादिनेति समानः, अर्थो घटादिरिति । वस्तुसत्तासमाविष्टमभिधेयमर्थ इह गृह्यते, न तु वचनमात्रमिति [पृ०२३ पं०७] । न त्वभिधेयसत्ताऽसमाविष्टमभिधेयं खरविषाणादिकमित्यर्थः । अथोपचाराभावे मुख्यतः साध्यशब्दवाच्यं किमित्याह- अनुपचरितं त्विति असमारोपितमित्यर्थः ।
ननु साध्यधर्मसामान्येनेत्यादिवाक्ये [पृ०२२ पं०३] किमवधार्यते ? । उच्यते । ' 'साध्यधर्मसामान्येन समान एव' इत्यवधार्यम्, न तु 'साध्यधर्मसामान्येनैव' इत्येवम् । यतो न स कश्चिदर्थोऽस्ति यः साध्यधर्मेणैव केवलेन समानः कल्पितव्यावृत्तिवशात् सर्वस्यानेकधर्मयोगात् । साध्यानित्यत्वसमानत्वादिति [पृ०२३ पं०१३]। शब्दे साध्यं
यदनित्यत्वं तेन समानत्वाद् घटादेरप्यनित्यत्वविशिष्टत्वाद् । उभयत्रापि दृष्टान्ते साध्यधर्मिणि 15 चानित्यत्वसद्भावात् समानतेति । यस्मिन्नर्थे [पृ०२३ पं०१५] इति आकाशादावित्यर्थः । 15
यदि विपक्षे साध्यं नास्ति तर्हि किं तत्र साधनमस्तीत्याह- इह चेत्यादि [पृ०२३ पं०१६] । तत्र हीत्यादि [पृ०२३ पं०१९] । तत्र हि विपक्षे आकाशादावनित्यत्वाभावात् कृतकत्वाभावः 'व्यापकं निवर्तमानं व्याप्यमादाय निवर्तते' इति न्यायात् ।
सांप्रतमित्यादि [पृ०२३ पं०२०] । तत्रेति निर्धारणे [पृ०२३ पं०२०] । तत्र तेषु पक्षादिषु मध्ये पक्षधर्मत्वादिगुणेन हेतोः स्वरूपं निर्धार्यत इत्यर्थः । कृतकत्वमित्यत्र 20 संज्ञायां कन् [पृ०२४ पं०१] । संज्ञामेवाह- अपेक्षितेत्यादि [पृ०२४ पं०२] । अपेक्षित: 20 परेषां कुलालादीनां व्यापारो येन घटादिना स तथा । भावो घटादिः । स्वभावनिष्पत्तौ आत्मसत्तानिष्पत्तावित्यर्थः ।
द्वितीयेत्यादि [पृ०२४ पं०६] । सपक्षस्यैकदेशे वृत्तिरस्य स तथा । यतोऽनित्यत्वविशिष्टेषु सर्वेषु धर्मिषु न वर्तते व्याप्त्या प्रयत्नानन्तरीयकत्वम्, अपि तु केषुचिदेव न घटादिषु, न विद्युदादिषु । अथ च साध्यानित्यत्वसमानत्वाद् विद्युदादिरपि सपक्षः।
१ °षाणमित्यर्थः c. ॥ २ कल्प्यते व्यावृ. c. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org