________________
न्यायप्रवेशकवृत्तिपञ्जिका।
७५ अयं चार्थः विपक्षे चासत्त्वमेवेत्यत्र एवकारवशात् साधितोऽपि सुव्यवस्थापनार्थं पुनरपि साध्यते। यदुक्तम्- त एव विधयः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्चोच्यत [ ] इति। तथा शब्दमुद्दिश्य यदाऽनित्यत्वं साध्यते प्रयत्नानन्तरीयकत्ववशात् तदा विशिष्टं शब्दं पक्षीकृत्य प्रयत्नानन्तरीयकत्वसाधनमुपन्यसनीयम् । अन्यथा हि शब्दमात्रपरिग्रहे प्रयत्नानन्तरीयकत्वमव्यापकासिद्धं स्यात् । न हि प्रयत्नानन्तरं सर्वशब्दानां जन्मास्ति, घण्टावेण्वादौ वातादपि शब्दप्रादुर्भावात् ।
अयं च हेतुः किमिति [पृ०२४ पं०७] । अयं हेतुः स्वभाव-कार्यादिः किंरूप: सन् हेतुर्भवति [पृ०२४ पं०८] । तत्राह-पक्षधर्म एवेति। न तु पक्षस्यैव धर्म इति । इत्थं ह्यवधारणे क्रियमाणे सपक्षविपक्षयोवृत्तेर्व्यवच्छिद्यमानतया सपक्षे सत्त्वं न प्राप्यते । ततः पक्षस्यैव धर्मः सन् श्रावणत्वमेव हेतुः स्यात्, न कृतकत्वादयः, तेषां सपक्षेऽपि भावात्, तत: ‘पक्षधर्म एव' इत्यवधार्यम् । कुत इत्याह- अयोगेत्यादि [पृ०२४ पं०८] । 10 अयोगोऽसंबन्धस्तस्य व्यवच्छेदमात्रं फलं यस्य तस्य भावस्तत्त्वम् । तस्मादयमर्थः- यत्र धर्मिणि धर्मस्य सद्भावः संदिह्यते तत्रायोगव्यवच्छेद एव न्यायप्रवृत्तो यथा चैत्रो धनुर्धर एवेति [पृ०२४ पं०९] । अत्र हि चैत्रे धनुर्धरत्वं संदिह्यते किमस्ति नास्ति वा, ततश्चैत्रो
धनुर्धर एवेति चैत्रस्य धनुर्धरत्वसद्भावप्रतिपादकमिदं वचनं पक्षान्तरमसद्भावरूपमा15 शङ्कोपस्थापितं श्रोतुर्निराकरोतीत्यत्रायोगव्यवच्छेद एवेति ।।
तर्हि पक्षधर्म एवेत्यनेन किं व्यावर्तितमित्याह - अनेन चेति [पृ०२४ पं०९] । यतोऽपक्षधर्मो हेतुरसिद्ध उच्यतेऽतः पक्षधर्मो हेतुर्भवन्नपक्षधर्ममसिद्धचतुष्टयं व्यावर्तयति । असाधारणस्य चेति [पृ०२४ पं०९] । ननु नित्यः शब्दः श्रावणत्वादित्ययमसाधारणो हेतुः पक्षस्य शब्दाख्यस्य धर्मिणो धर्म एव वर्तते तत् कथमस्यानेनावधारणेन व्यावृत्तिः स्यादिति ?
अत्रोच्यते- इह हि वक्ष्यमाणस्य हेतुरूपद्वयस्य संग्रहो यथा स्यादित्येवमर्थं पक्षधर्म 20 एवेत्यवधारणमयोगव्यवच्छेदमात्रफलमेव गृहीतम् । ततः सपक्षवृत्तिमान् विपक्षनिवृत्तिमानेव 2
च हेतुर्यदि पक्षधर्मो भवतीत्ययमर्थो व्यवतिष्ठते । न चासाधारणस्य सपक्षविपक्षयोः प्रवृत्तिनिवृत्ती विद्येते पक्षधर्मत्वं मुक्त्वा। अतः शेषरूपद्वयाभावादसाधारणस्य पक्षधर्मत्वे सत्यपि पक्षस्यैव धर्म इत्यवधारणनिरासेनैव हेतुत्वनिरासो भवतीति । अन्ययोगेति [पृ०२४ पं०१०] अन्येन विपक्षेण सह योगस्तस्य व्यवच्छेद इति विग्रहः । पार्थ एव ।
15
15
25
१ सपक्षे वृ° c.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org