________________
७६
पार्श्वदेवगणिविरचिता धनुर्धर इत्यत्र पार्थे धनुर्धरत्वं सिद्धमेवेति नायोगाशका । तादृशं तु सातिशयं किमन्यत्राप्यस्ति नास्ति वेत्यन्यत्रयोगाशङ्कायां श्रोतुर्यदा पार्थ एव धनुर्धर इत्युच्यते तदाऽन्ययोगव्यवच्छेदो भवतीति ।
नवानामपीति [पृ०२४ पं०११] । यतोऽनैकान्तिकानामुभयगामित्वात् तेष्ववधारणार्थ 5 एव न घटते विरुद्धेषु च विपक्ष एव भावात् समस्तपदमेव न घटते इति भावः । 5 तव्यतिरेकेणेति । सपक्षमन्तरेण तद्धर्मत्वानुपपत्तिः पक्षधर्मत्वाघटनम् । अनवधृतेति। अवधारणविधेरिति शेषः । अयमर्थः- अनवधृतस्यार्थस्यावधारणं व्यवच्छेदकं स्यात्, न त्ववधृतस्य । पक्षधर्म एवेति च प्रागप्यस्मादवधारणादवधारितमेवेति कथमनेन तस्य बाधा स्यात् ? |
तृतीयमवधारणमिति [पृ०२४ पं०१३] । अवधारणपदं तृतीयं किमर्थम् ? । यतः 'सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एवेति भावः । प्रयोगोपदर्शनार्थमिति। 10 वादकाले प्रयोगविधेर्तापनार्थमित्यर्थः ।
उक्तं चेत्यादि [पृ०२४ पं०१४] । कथं नु नाम स्याद् द्वितीयस्याक्षेपकम्। केनचित् प्रकारेण भवतु द्वितीयस्य सूचकम् । यथा साधर्म्यणोक्ते वैधर्म्यस्याक्षेपकं स्याद्
वैधर्येण तु साधर्म्यस्येति। द्वितीयाक्षेपकं चैकं रूपमुक्तं तदा स्याद्यद्यन्वयो व्यतिरेको वा 15 साध्ये न सह तादात्म्य-तदुत्पत्तिप्रतिबन्धवतो हे तोः प्रयुक्तः स्यात्, न तु 15
दर्शनादर्शननिमित्तकस्येत्यतः प्रतिबन्धवद्धेतुप्रयोगख्यापनार्थं द्वयोरुपादानम् । प्रतिबन्धवतश्च हे तोरन्वयव्यतिरेकयोः प्रयोगे द्वयोरेक एव प्रयोक्तव्यो न द्वाविति । यत एकेनैव साध्याविनाभावनियमवता प्रयुक्तेनापरस्य गतेर्न द्वयोः प्रयोगो युगपत् कर्तुं युक्तः । तस्माद् द्वयोर्लक्षणवाक्ययोरुपादानम्। साध्याविनाभावनियमवत एकस्यैव प्रयोगो यथा स्यादिति
ख्यापनार्थमिति स्थितम् । अत एवाह- प्रभूतमित्यादि [पृ०२४ पं०१५] । 20 दुःखादिपरिग्रह इति [पृ०२४ पं०१७] । इह हि सौगतमते दुःख-समुदय-मार्ग- 20 निरोधा इति चत्वार्यार्यसत्यानि प्रतिपादितानि । तत्र च दुःखसत्यं चतुर्भिः प्रकारैर्निगदितं यथाअनित्यतो दुःखतोऽनात्मतः शून्यतश्चेति । तदिहाऽनित्याः संसारिणः स्कन्धा इत्यनित्यत्वे साध्ये कृतकत्व-प्रयत्नानन्तरीयकत्वे हेतू तावत् स्तः ।अत्रत्यादिग्रहणाच्च दु:खं संसारिण: स्कन्धास्तथा
१ स्यावधा' c.॥ २ °कालप्रयो' J. P. ॥ ३ °ग्रहणेन.........हेतू सूचयति । एतच्च c. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org