________________
न्यायप्रवेशकवृत्तिपञ्जिका।
७३ हेतुर्न सिद्धोऽत एव धर्मधर्मिसमुदायोऽपि व्याप्तिग्रहणकाले न पक्षः, धर्ममात्रं तु युक्तम्, धर्मेणैव दृष्टान्ते हेतुर्व्याप्तो यतः साध्यप्रतीतिकालेऽपि धर्ममात्रं न पक्षः, अपि तु समुदायः, निराधारस्य धर्मस्यासिद्धेः । नापि धर्मिमात्रं पक्षः, धर्मिणः पक्षत्वेन पक्षधर्मग्रहणकाल एव सिद्धत्वात् । ततः साध्यप्रतीतिकाले धर्मधर्मिसमुदाय एव पक्षो युक्तः । तदुक्तम्
ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते । व्याप्तिकाले भवेद् धर्मः साध्यसिद्धौ पुनर्द्वयम् ॥ [ ] इति स्थितम् ।
ननु सपक्षे सत्त्वमस्तित्वमितीदं हेतो रूपं कथं संगच्छते, यतो न यादृशवह्निजन्यस्य धूमस्य साध्यधर्मिणि सद्भावस्तादृशवह्निजन्यस्यैव महानसेऽपि, अनीदृशस्यापि संभवात्? इत्याह-सामान्येन भाव इति [पृ०२२ पं०१५] । सपक्षेऽविशेषेणैवाऽधूमव्यावृत्त्या
धूममात्रास्तित्वसद्भावः सत्त्वमिह हेतोद्धितीयं रूपमित्यर्थः ।। 10 स च विशेषणार्थ [पृ०२२ पं०१७] इति, विशेषयतीति विशेषणं तदेवार्थो यस्येति 10
स तथा । पूर्वोक्तरूपादस्य रूपस्य विभिन्नत्वप्रदर्शनार्थ इत्यर्थः । अत्रैवेति [पृ०२२ पं०१८] विपक्षे एव । तर्हि किं सपक्ष एकदेशेनापि वर्तमानं सत्त्वं गमकम् ? उतश्वित् सामस्त्येनैव वर्तमानम्? इत्याह- सपक्षे त्विति [पृ०२२. पं०१९] । न केवलं सामस्त्येन एकदेशेनापीत्यपेरर्थः । इतोऽपि किं सिद्धमित्याह- तथा चेति [पृ०२२ पं०१९] । एकान्तेन
एकान्ततः सर्वथैवेत्यर्थः। न केवलं कृतकत्वादयः सामस्त्यसपक्षव्यापिन इत्यपेरर्थः । 15 आवेद्यते स्म आवेदितम् [पृ०२२ पं०२१] ।
15 निगदः [पृ०२३ पं०२] पाठ उच्यते । निर्वचनं तु प्रत्युत्तरम् । इत्थं सूत्राक्षरयोजना कार्या । कः सपक्षस्तत्र ? [पृ०२३ पं०६]। समानोऽर्थः सपक्षः । समानः सदृशो योऽर्थो घटादिः पक्षेण सह शब्दादिना स घटादिः पक्ष उपचारात्, दृष्टान्तलक्षणोऽर्थ इह
पक्षशब्दवाच्यः, ततः समानः पक्षः [पृ०२३ पं०८] । समानस्य सकारः । 20 अत्र स्यादेतत् - किं तत् पक्ष-सपक्षयोः सामान्यं येन समानः सपक्ष: पक्षणेत्याह- 20
साध्यधर्मसामान्येन [पृ०२२ पं०३] । तत्र साध्यश्चासावसिद्धत्वाद् धर्मश्च पराश्रितत्वादिति विशेषणसमासः । ननु साध्यशब्दो धर्मधर्मिसमुदायवृत्तिस्तत् कथं साध्यश्चासौ धर्मश्चेति [पृ०२३ पं०४] समस्यते इत्याह- इहेत्यादि [पृ०२३ पं०३] । अयमर्थः-उपचाराद्
१ तर्हि सपक्ष एकदेशेनापि वर्तमानं किं सत्त्वं c.। २ 'त्यर्थोऽपेः । आवे° c. ॥ ३ समानः 25 पक्षः नास्ति C. ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org