________________
७२
पार्श्वदेवगणिविरचिता तु धर्मधर्मिलक्षण: समुदाय: पक्ष इति द्रष्टव्यम् । अथेदं कस्माल्लभ्यते? उच्यते । न्यायबलात् । तथाहि-यदि हेतुलक्षणकाले धर्मधर्मिसमुदायोऽनुमेयो गृह्यते तदा समुदायः परं प्रत्यसिद्धः। अनित्यत्व-वह्नया दिविशिष्टस्य शब्द-पर्वतनितम्बादेः कृतकत्व-धूमादिप्रतीतिकाले बोद्धमशक्यत्वादसिद्धो हेतुः स्यादिति कथं समुदाये(यो) हेतोरेकं रूपं स्यात्। अथ सिद्धस्तदा हेतोरुपादानं व्यर्थं स्यात् । तस्मात् पक्षधर्मत्वप्रतीतिकाले न समुदायोऽनुमेयः। तर्हि पक्षधर्मत्वे ज्ञातव्ये धर्ममात्रं पक्षोऽस्तु । तथापि कथं धर्मी पक्षो लभ्यते ? । उच्यते। न्यायादेव । तथाहि-धर्मे धर्मो न संभवति । अपि तु धर्मिण एव धर्मसंभवः, संभवे वा हेतूपादानं व्यर्थं स्यात्। पक्षधर्मत्वप्रतीतावेव साध्यधर्मावगतिप्रसङ्गात्। तस्माद्यद्यपि पक्षशब्देन धर्मधर्मिसमुदाय उच्यते तथापि हेतुलक्षणे निश्चेतव्ये धर्मी पक्षोऽभिधीयते । कथं पुन: समुदायवचनः सन् पक्षशब्दो धर्मिमात्रे वर्तते इति चेदाह- अवयवेत्यादि [पृ०२२ पं०१४] । पक्षाख्यस्य हि समुदायस्य द्वाववयवौ धर्मी धर्मश्च । तंत्र हेतुलक्षणे निश्चेतव्ये धर्मिमात्रे समुदायोपचारात् "" पक्षशब्दो वर्तते । मुख्यपक्षैकदेशत्वं चात्र समुदायोपचारनिमित्तमिति न साध्यधर्मिणोऽन्यत्र पक्षत्वप्रसङ्गः । तथा व्याप्तिग्रहणकाले धर्मी पक्षो न भवति यतो दृष्टान्ते धर्मिणा व्याप्तो
उदाहरणम् यथा वृक्षोऽयं शिंशपात्वादिति ॥१७॥ अयमिति धर्मी । वृक्ष इति साध्यम् । शिशपात्वादिति हेतुः । तदयमर्थः- वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयोग्यत्वादिति तत्र प्रचुरशिंशपे देशेऽविदितशिंशपाव्यवहारो 15 जडो यदा केनचिदुच्चां शिंशपामुपदर्योच्यते 'अयं वृक्षः' इति तदासौ जाड्याच्छिशपाया उच्चत्वमपि वृक्षव्यवहार- 15
निमित्तमवस्यति । तदा यामेवानुच्चा शिंशपां पश्यति तामेवावृक्षमवस्यति । स मूढः शिंशपात्वमात्रनिमित्ते वृक्षव्यवहारे प्रवर्त्यते-'नोच्चत्वादि निमित्तान्तरमिह वृक्षव्यवहारस्य, अपि तु शिंशपात्वमात्रं निमित्तम्' । शिशपागतशाखादिमत्त्वं निमित्तमित्यर्थः।
कार्यमुदाहर्तुमाह- कार्यं यथाग्निरत्र धूमादिति ॥ १८॥ अग्निरिति साध्यम् । अत्रेति धर्मी । धूमादिति हेतुः। कार्यकारणभावो लोके प्रत्यक्षानुपलम्भनिबन्धनः प्रतीत इति न स्वभावस्येव कार्यस्य लक्षणमुक्तम् । ननु 20 त्रिरूपत्वादेकमेव लिङ्गमयुक्तम् । अथ प्रकारभेदाढ़ेदः, एवं सति स्वभावहेतोरेकस्यानन्तप्रकारत्वात्
20 त्रित्वमयुक्तमित्याह- अत्र द्वौ वस्तुसाधनौ, एकः प्रतिषेधहेतुः ॥१९॥ 'अत्र' इति एषु त्रिषु हेतुषु मध्ये द्वौ हे तू 'वस्तुसाधनौ' विधेः साधनौ गमकौ। एकः प्रतिषेधस्य 'हे तुः' गमकः। प्रतिषेध इति चाभावोऽभावव्यवहारश्चोक्तो द्रष्टव्यः । तदयमर्थः- हेतुः साध्यसिद्ध्यर्थत्वात् साध्याङ्गम् । साध्यं प्रधानम्। अतश्च साध्योपकरणस्य हेतोः प्रधानसाध्यभेदात् भेदो न स्वरूपभेदात्। साध्यश्च कश्चिद्विधिः कश्चित्प्रतिषेधः । विधिप्रतिषेधयोश्च परस्परपरिहारेणावस्थानात् तयोः हेतू भिन्नौ । विधिरपि [२५] कश्चिद्धेतोर्भिन्नः कश्चिदभिन्नः । भेदाभेदयोरपि
अन्योन्यत्यागेनात्मस्थितेः भिन्नौ हेतू । ततः साध्यस्य परस्परविरोधात् हेतवो भिन्ना न तु स्वत एवेति।'' इति 25 धर्मोत्तरविरचितया टीकया सहिते न्यायबिन्दौ द्वितीये परिच्छेदे ॥
१ धर्मिधर्मलक्षण: C. ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org