Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 85
________________ न्यायप्रवेशक वृत्तिपञ्जिका । ५७ कामित्याह – न्यायप्रवेशकव्याख्याम् । तत्र नितरामीयन्ते गम्यन्ते गत्यर्थानां ज्ञानार्थत्वात् ज्ञायन्तेऽर्था अनित्यत्वास्तित्वादयो धर्मा अनेनेति न्यायः तर्कमार्गः । इणो धातोर्निपूर्वस्य पेरिन्योर्नीणोर्द्यूताभ्रेषयोः [ पा० ३/३/३७] इति वचनात् करणे घञ् । न्याये प्रवेशयति शिष्यं तदेभिज्ञं करोति यच्छास्त्रं श्रूयमाणं तन्यायप्रवेशकम्, तस्य । व्याख्या, विशेषेणाख्यायते प्रकाश्यते सूत्रमनयेति व्याख्या वृत्तिग्रन्थः, यद्वा व्याख्यानं व्याख्या विवरणमित्यर्थः, 5 ताम् । किंविशिष्टाम् ? स्फुटार्थाम् प्रकटाभिधेयाम् । किं कृत्वा ? प्रणिपत्य मनोवाक्कायैर्नमस्कृत्य [पृ०१३ पं. ९ ] । कम् ? जिनेश्वरम् । रागादिजेतृत्वाज्जिनः । ईष्टे नरामरादिविहितं पूजादिकमैश्वर्यमनुभवतीत्येवंशील ईश्वरः । ततो जिनश्चासावीश्वरश्च जिनेश्वरः, तम् । कीदृक्षम् ? वक्तारं प्रतिपादकम् । कस्य ? न्यायस्य । कथम् ? सम्यक् यथावस्थितस्वरूपेण । यद्वा सम्यक् चासौ न्यायश्च सम्यग्न्याय इति समस्तं द्रष्टव्यम् । तदनेन जैनमतानुसारिणामभिप्रायेण चत्वारोऽतिशया वाच्याः । यथा अपायापगमातिशयः 10 ज्ञानातिशयः पूजातिशयो वचनातिशयश्चेति । तत्र सम्यगित्यनेन ज्ञानातिशयः सूचितः सम्यग्ज्ञानं 10 विना यथावस्थितवस्तुरूपोपलम्भानुपपत्तेः । वक्तारमित्यनेन च वचनातिशयोऽभिहितः, वक्तृत्त्वं विनाऽशेषवस्तूपलम्भेऽपि वस्तुतत्त्वप्रतिपादनानुपपत्तेः । जिन इत्यनेन त्वपायापगमातिशयः, रागाद्युच्छे दनिबन्धनतया जिनशब्दप्रवृत्तेः । ईश्वरमित्यनेन तु पूजातिशय:, सम्यग्ज्ञानाद्यतिशयोपेतस्यामरादिपूज्यत्वसम्भवात् । सौगतमतानुसारेण तु स्वार्थ- परार्थसम्पत्ती सोपाये वाच्ये । तत्राऽऽद्यपादेन परार्थसम्पत्तिरुक्ता १ । जिन इत्यनेन च स्वार्थसम्पत्त्युपायः २ । ईश्वरमित्यनेन च स्वार्थसम्पत्तिः ३ । जिनेश्वरमिति समुदितेन च परार्थसम्पत्त्युपाय ४ इति । 15 20 25 एतेन च श्लोकार्थेन मड्गलमभिहितम् । न्यायप्रवेशकव्याख्यामिति अभिधेयम् । अनेन च व्याख्यान - व्याख्येयलक्षणः सम्बन्धोऽप्यभिहितः । द्वितीयश्लोकेन तु प्रयोजनं प्रदर्शयिष्यतीति । 5 20 नन्वस्य पूर्वसूरिभिरपि व्याख्याया विरचितत्वात् किं भवतो व्याख्याविरचनप्रयासेन ? इति परवचनमनुमन्यमान आत्मनो वृत्तिकरणे प्रयोजनं च प्रदर्शयन्नाह - रचितामपीत्यादि [पृ०१३ पं०११] । सुगमः । नवरं सती शोभना विद्यमाना वा प्रज्ञा येषां ते तथा, तैः 1 Jain Education International 15 १. " ३२०९ परिन्योर्नीणोर्द्यूताभ्रेषयोः [पा० ३/३/३७], परिपूर्वान्नयतेः निपूर्वादिणश्च घञ् 25 स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये, परिणायेन शारान् हन्ति, समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः, उचितमित्यर्थः । द्यूताभ्रेषयोः किम् ? परिणयो विवाहः । न्ययो न्यासः ।" पा० सिद्धान्तकौमुदी ॥ २. तदभिज्ञं करोति शिष्यं J.P. ॥ तु स्वा° C. ॥ ४ ° जनं दर्श° C. ॥ ३. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192