________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्।
३९ तंत्र धर्मेत्यादि। तत्र इति पूर्ववत् । धर्मः पर्याय इत्यनर्थान्तरम् , तस्य स्वरूपमसाधारणम् आत्मलक्षणं धर्मस्वरूपम्, तस्य विपरीतसाधन इति समासः । एवं शेषेष्वपि द्रष्टव्यमिति । अधुनोदाहरणमाह- यथा नित्यः शब्दः कृतकत्वात् इत्यादि। अत्र धर्मस्वरूपं नित्यत्वम् । अयं च हेतुस्तद्विपरीतमनित्यत्वं साधयति 5 तेनैवाविनाभूतत्वात् । तथा चाह- विपक्ष एव भावाद् विरुद्धः । आह- 5
अयमपक्षधर्मत्वादसिद्धान्न विशिष्यते, कथं विरुद्ध इति ? अत्रोच्यते, नावश्यं पक्षधर्मस्यैव विरुद्धता, अन्यथाप्याचार्यप्रवृत्तेः अधिकृतप्रयोगज्ञापकात्। न चायमसिद्धान्न विशिष्यते इति विपर्ययसाधकत्वेनाऽविरुद्धः । एतत्प्रर्धानत्वा
च्चोपन्यासस्य । अन्यथाऽनैकान्तिकस्याप्यसिद्धत्वप्रसङ्गः । नित्यत्वादिधिकत्वेन 10 प्रमेयत्वादीनामपि असिद्धत्वात् । इत्यलं प्रसङ्गेन । गमनिकामात्रमेतत् । 10
सू० [१३], धर्मविशेषविपरीतसाधनो यथापरार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । अयं हेतुर्यथा पारार्थ्यं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्य
साध्यधर्मविशेषविपरीतं साधयति। उभयत्राव्यभिचारात् ।। 15 धर्मिस्वरूपविपरीतसाधनो यथा - न द्रव्यम् न कर्म न गुणो 15
भावः इति एकद्रव्यवत्त्वात् गुणकर्मसु च भावात् सामान्यविशेषवदिति । अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं भावस्य साधयति तथा भावस्य अभावत्वमपि साधयति, उभयत्राव्यभिचारात् ॥
धर्मिविशेषविपरीतसाधनो यथा-अयमेव हेतुरस्मिन्नेव पूर्व20 पक्षेऽस्यैव धर्मिणो यो विशेषः सत्प्रत्ययकर्तृत्वं तद्विपरीतमसत्प्रत्यय- 20
कर्तृत्वमपि द्रव्यादिप्रतिषेधवत् साधयति । उभयत्राव्यभिचारात् ।
१. तत्र धर्मस्वरूपविपरीतसाधनो यथा । तत्रेति पूर्ववत् । P२, A ।। २. 'णात्मकलक्षणं J२ ॥ ३. कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्वा इत्ययं हेतुर्विपक्ष एव भावाद् विरुद्धः । अत्र धर्म P२, A॥ ४. 'त्यत्वं च साध'J२॥ ५. अनित्यत्वेनाविनाभूतत्वात् कृतकस्य टि० J२॥ ६. कृतकत्वाख्यो हेतुः टि०॥२॥
अपक्षधर्मस्यापि भवति विरुद्धता टि०४२॥ ८ 'साधकत्वेना( न P३) सिद्धेः R विना। 25 विरुद्धस्येति टि०७२॥ ९. असिद्धस्येति टि०७२ || १० विपर्ययसाधकत्वात् टि० २॥ ११ 'साधनत्वेन J२, V, R.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org