________________
४०
हरिभद्रसूरिविरचितटीकासहितं टी० [१३], धर्मविशेषविपरीत इत्यादि अस्योदाहरणं यथा परार्थाश्चक्षुरादय इत्यादि। कः पुनरेवमाह ? सांख्यो बौद्धं प्रति । इह चक्षुरादयो धर्मिणः । आदिशब्दात् शेषेन्द्रिय-महदहकारादिपरिग्रहः। परार्थत्वं साध्यधर्मः। अस्य च विशेषोऽसंहतपरार्थत्वमिष्टम् । अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैफल्यप्रसङ्गः । संघातत्वादिति हेतुः । तत्र द्वयोर्बहूनां वा मेलक: संघातः, तस्य 5 भावः संघातत्वम्, तस्मात् संघातत्वात् । शयनासनाद्यङ्गवदिति दृष्टान्तः। शयनं पर्यटकादि, आसनमासन्दकादि। तदङ्गानि प्रतीतान्येव । यथैतदङ्गानि संघातत्वाद् देवदत्तादिपरार्थानि वर्त्तन्ते एवं चक्षुरादयोऽपीति भावार्थः । अधुना विरुद्धत्वमाह
अयमित्यादि । अयं हि हेतुः संघातत्वलक्षणो यथा येन प्रकारेण पारार्थ्यं परार्थभावं । चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः ..
साधयति । तेनाप्यविनाभूतत्वात् । तथा चाह- उभयत्राव्यभिचारात् । उभयत्रेति पाराक्षं संहतत्वे च अव्यभिचाराद् गमकत्वादित्यर्थः। तथा चैवमपि वक्तुं शक्यत एव–संहतपरार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यगवदिति । शयनासनाद्यगानि
हि संहतस्य कर-चरणोरु-ग्रीवादिमत एवार्थं कुर्वन्ति नान्यस्य, तथोपलब्धेरिति । 15 आह.–विपक्ष एव भावाद् विरुद्ध इति सामान्यं विरुद्धलक्षणम्, तत् कथमिहोपपद्यते?
इति । उच्यते । असंहतपरविपक्षो हि संहतपर इति तत्रैव वृत्तिदर्शनात् किं नोपपद्यते?। आक्षेप-परिहारौ पूर्ववत् ।
_धर्मिस्वरूपविपरीतेत्यादि । धर्मा अस्य विद्यन्ते इति धर्मी । उदाहरणं तु यथा न द्रव्यमित्यादि । कः पुनरेवमाह ? । वैशेषिको बौद्धान् प्रति । केन पुनः संबन्धेन ? इति । उच्यते । तस्य सिद्धान्ते द्रव्य-गुण-कर्म-सामान्य-विशेष
20 १. विपरीतसाधनः । अस्यो'PRA ॥ २. दयः संघातत्वात् शयनासनाद्यंगवदिति । कः पुन P२,A || जइह च चक्षु० इति पञ्जिकासंमतः पाठः ।। ३. महदिति बुद्धेराख्याटि०J२ ॥४. पारार्थ्यं सा' J२,R. ||५. मीलकः P३मू०, P२, A ॥ ६. पल्यंकादि J२, R. ।। ७. अयं हि हेतुर्यथा पारार्थ्यं चक्षुरादीनां साधयति तथा सहंतत्वमपि परस्यात्मनः साधयति ।अयं हि हेतुः P२, A ॥ ८. हि नास्ति J२, V, R. ॥ ९. संघातत्वमपि परस्या' P२, A ॥१०.
संहतत्वेनापि टि०७२ ॥११. तथाऽत्रैवमपि P२, A ॥१२.शयनाद्यंगानि J२, . ॥१३. सामान्यविरु'२ ॥१४. 25 असंहतविपक्षो P२, A ॥ १५. संहत इति R. विना ॥१६. तत्रैव दर्शनात् P२, A ॥ १७. 'द्यते इति असिद्धाक्षेप' 25
v विना ॥१८. विपरीतसाधन: धर्मा P२, A ॥१९. द्रव्यं न कर्म न गुणो भाव इति एकद्रव्यत्त्वात् गुण-कर्मसु च भावात सामान्यविशेषवदिति कः पुन ' P२ A॥ २०. प्रस्तावेन टिOJ२॥ २१. वैशेषिकस्य टिOJ२॥ २२. सिद्धान्तो विना ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org