________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। समवायाः षट् पदार्थाः । तंत्र पृथ्व्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः । तद्यथा रूप १ रस २ गन्ध ३ स्पर्श ४ संख्या ५ परिमाणानि ६ पृथकत्वं ७ संयोग ८ विभागौ ९ परत्वा १० परत्वे ११ बुद्धिः १२
सुख १३ दु:खे १४ इच्छा १५ द्वेषौ १६ प्रयत्नश्चेति १७ सूत्रोक्ताः । चशब्दात् द्रवत्वं१ 5 गुरुत्वं २ संस्कार:३ स्नेहो ४ धर्माधर्मों५-६ शब्दश्चेति ७। एवं चतुर्विंशतिर्गुणाः। 5 पञ्च कर्माणि। तद्यथा-उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । गमनग्रहणाद् भ्रमण-रेचन-स्यन्दनाद्यवरोधः । सामान्यं द्विविधं परमपरं चेति । तत्र परं सत्ता भावो महासामान्यमिति चोच्यते। अपरं तु ;व्यत्वादि।
तत्र सत्ता द्रव्य-गुण-कर्मभ्योऽर्थान्तरम् । कया पुनर्युक्त्या ? इत्यत्राह- न द्रव्यं भावः, एकद्रव्यवत्त्वादित्यादि । अत्र भावो धर्मी, द्रव्यादिप्रतिषेधः साध्यो ।। धर्मः । एकद्रव्यवत्त्वादित्यादि हेतुः । सामान्यविशेषवदिति दृष्टान्तः । अधुना भावार्थ उच्यते-न द्रव्यं भावः, द्रव्यादन्य इत्यर्थः । एकद्रव्यवत्त्वादित्यत्र एकं च तद् द्रव्यं च एकद्रव्यम्, एकद्रव्यमस्यास्तीति आश्रयभूतमिति एकद्रव्यवान्। समानाधिकरणात् बहुव्रीहिः, कदाचित् कर्मधारयः सर्वधनाद्यर्थः [ ] इति वचनात्। तद्भावस्तत्त्वम्, तस्मादेकद्रव्यवत्त्वात् । एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः । .. वैशेषिकस्य हि अद्रव्यं द्रव्यम् अनेकद्रव्यं च द्रव्यम् । तत्राद्रव्यमाकाश-कालदिगात्म-मन:-परमाणवः । अनेकद्रव्यं तु व्यणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव नास्ति । एकद्रव्यवांश्च भावः । इत्यतो द्रव्यलक्षणविलक्षणत्वात् न द्रव्यं भाव इति। दृष्टान्त: सामान्यविशेषः । स च द्रव्यत्व-गुणत्व-कर्मत्वलक्षणः । द्रव्यत्वं हि नवसु द्रव्येषु वर्तमानत्वात् सामान्यं गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः । एवं गुणत्व"कर्मत्वयोरपि भावना कार्येति । ततश्च सामान्यं च तद् विशेषश्च स इति
१. ततः R. पञ्जिकां विना ॥ २. बुद्धयः P२, A ॥ ३. 'धर्मों वेगः शब्द'J२॥ ४. शब्दा' P२, A ।। ५. तिगुणा: J२ विना ।। ६. ग्रहणम् टि०J२॥ ७. महासामान्यम् टि०J२॥ ८. भिन्ना सत्ता टिo J२ ।। ९, 'त्यादि हेतुः सामान्य P२, A॥ १०. रणो J२, VI 'रणसमासाद् बहुव्रीहिः P२,३, A ॥ ११.
तद्भावस्तस्मा J२विना॥ १२. एकस्मिन् v॥ १३. यस्यारम्भकमन्यद् द्रव्यं नास्ति तत् टि०J२॥ १४. 25 अनेकानि द्रव्याणि आरम्भकाणि यस्य तत् टि० ॥२॥ १५. 'द्रव्यं च। तत्रा' J२ विना॥ १६. तत्राद्रव्यं 25
द्रव्यमा' R. पञ्जिकां विना ॥ १७. व्यावर्तमानत्वाद् J२ विना ॥ १८. स इति नास्ति P२,३, A, R. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org