SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४२ हरिभद्रसूरिविरचितटीकासहितं सामान्यविशेषः, तेन तुल्यं वर्तत इति सामान्यविशेषवत्, द्रव्यत्ववदित्यर्थः । ततश्चैतदुक्तं भवति-यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं भावोऽपीत्यभिप्राय: । आह-यदि नाम द्रव्यं न भवति तथाऽपि गुणो भविष्यति कर्म च इत्येतदपि निराचिकीर्षुराचार्य आह5 गुणकर्मसु च भावात् भावस्य, ततश्च न गुणो भावः, गुणेषु भावाद्, गुणत्ववत् 5 । यदि च भावो गुणः स्यान्न तर्हि गुणेषु वर्तेत, निर्गुणत्वाद् गुणानाम्। वर्तते च गुणेषु भोवः, सन् गुण इति प्रतीतेः । तथा न कर्म भावः, कर्मसु भावात्, कर्मत्ववत्। यदि च भावः कर्म स्यात् न तर्हि कर्मसु वर्तेत निष्कर्मकत्वात् कर्मणाम्। वर्तते च कर्मसु भावः, सत् कर्मेति प्रतीतेः। व्यत्ययोपन्यासस्तु 10 प्रतिज्ञाहेत्वोर्विचित्रन्यायप्रदर्शनार्थम् । इत्येवं वैशेषिकेणोक्ते बौद्ध आह– अयं हि 10 हेतुस्त्रिप्रकारोऽपि यथा द्रव्यादिप्रतिषेधं साधयति तथा भावस्य धर्मिणोऽभावत्वमपि साधयति, तेनाप्यविनाभूतत्वात्। तथा चाह- उभयत्राव्यभिचारात्। उभयत्र द्रव्यादिप्रतिषेधे भावाभावे च गमकत्वात् । तथा च यथैतद् वक्तुं शक्यते न द्रव्यं भावः एकद्रव्यवत्त्वात् द्रव्यत्ववत् एवमिदमपि शक्यते भावो भाव एव न 15 भवति एकद्रव्यवत्त्वात् द्रव्यत्ववत् । न च द्रव्यत्वं भावः, सामान्यविशेषत्वात् । 15 एवं न गुणो भावः, गुणेषु भावात्, गुणत्ववत्। अत्रापि भावो भाव एव न भवति, गुणेषु भावात्, गुणत्ववत् । न च गुणत्वं भावः सामान्यविशेषत्वादेव । एवं न कर्म भावः, कर्मसु भावात्, कर्मत्ववत्, अत्रापि भावो भाव एव न भवति, कर्मसु भावात्, कर्मत्ववत् । न च कर्मत्वं भाव: सामान्यविशेषत्वात् । सामान्यविरुद्ध-लक्षणयोजना 20 तु भावविपक्षत्वात् सामान्यविशेषस्य सुकरैव । आह-अयमप्यसिद्धादेव न विशिष्यते 20 इति कथं विरुद्धः? । तथाहि-न भावो नाम द्रव्यादिव्यतिरिक्तः कश्चिदस्ति सौगतानाम् । तदभावाच्चाश्रयासिद्ध एव हेतुरिति । अत्रोच्यते, सत्यमेतत् । १ 'राह J२ विना॥ २ भाव: नास्ति J२, P३॥ ३ भावः नास्ति J२, P३॥ ४० नार्थः J२,v विना॥ ५. अयं च हेतु V ॥ ६. सत्तायाः टि०J२ ॥ ७. धर्मिस्वरूपविपरीतमभावत्वमपि R || ८. अभावेन टि० ॥२॥ 25 ९. हेतु । दृष्टान्त अव्यभिचारात् टि०७२ ॥ १०. अयमसिद्धादेव न विशि’R विना ।अयमसिद्धान्न विशि° v॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy