________________
३८
हरिभद्रसूरिविरचितटीकासहितं श्रावणत्वाख्यौ हेतू संदेहं कुरुत:- किं कृतकत्वाद् घटवदनित्य आहोस्विच्छ्रावणत्वाच्छब्दत्ववन्नित्य इति । एवं संदेहहेतुत्वे प्रतिपादिते परश्चोदयति-किं समस्तयोः संदेहहेतुत्वम् उत व्यस्तयोः ? यदि समस्तयोः संदेहहेतुत्वं तदाऽसाधारणान्न भिद्यते । श्रावणत्वं चासाधारणत्वेनोक्तम्। अथ व्यस्तयोस्तदपि 5 न। व्यस्तयोः सम्यग्घेतुत्वात् । अत्रोच्यते । समस्तयोरेव संदेहहेतुत्वम् । ननूक्तम्- 5
असाधारणान्न भिद्यते । तन्न । यतो भिद्यत एव । परस्परसापेक्षो विरुद्धाव्यभिचारी। एकक: असहायोऽसाधारणः । स चानेनांशेनाऽऽचार्येण भिन्न उपात्त इति तस्माददोषः, उक्तं च मूलग्रन्थे- द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव [ न्यायप्र०पृ०६
पं०१५]। अद्भाविते तु तदभाव इति। अत्र बहु वक्तव्यम् । तत्तु नोच्यते । 10 संक्षिप्तरुचिसत्त्वानुग्रहार्थोऽयमारम्भः । इत्युक्तोऽनैकान्तिकः ।
10 सू० [१२], विरुद्धश्चतुःप्रकार:- तद्यथा- धर्मस्वरूपविपरीतसाधनः १, धर्मविशेषविपरीतसाधनः २, धर्मिस्वरूपविपरीतसाधनः ३, धर्मिविशेषविपरीतसाधनश्चेति ४ ।
. तत्र धर्मस्वरूपविपरीतसाधनो यथा-नित्यः शब्दः कृतकत्वात् 15 प्रयत्नानन्तरीयकत्वाद्वेति। अयं हेतुर्विपक्ष एव अस्त्यतो 15
नित्यत्वलक्षणसाध्यधर्मस्य स्वरूपविपरीतमनित्यत्वं साधयति इति धर्मस्वरूपस्य विपरीतसाधनाद् विरुद्धः ।
टी० [१२], सांप्रतं विरुद्धमाह-विरुद्धश्चतुःप्रकार इत्यादि । विरुध्यते स्म विरुद्धः । तथाहि-अयं धर्मस्वरूपादिविपरीतसाधनाद्धर्मेण धर्मिणा वा 20 विरुध्यत एवेति चतुःप्रकारश्चतुर्भेदः । तद्यथा-धर्मस्वरूपैविपरीतसाधन 20
इत्यादि। तद्यथेति भेदोपन्यासार्थः । शब्दार्थमुदाहरणाधिकार एव वक्ष्यामः ।
१. श्रावणत्वान्नित्य इति P२, A ॥ २. तदा साधा. P२,३, A ॥ ३. यतः श्रावणत्वं ॥२॥ ४. सपक्षविपक्षयोरभावत्वेनोक्तम् टि०७२॥५. संशयहे• J२ ॥ ६. चारी चेति ।। ७. सम्मीलितावेव टि०७२॥८.
प्रतियोगिनि हेताविति टि०७२।। ९. विरुद्धाव्यभिचारित्वाभावः टि०J२॥ १०. इत्यादि नास्ति P२, A ॥ ११. 25 धर्मस्वरूपविपरीतादिसाध J२॥१२. धर्मिणा च P३ धर्मिणा वेति P२, A ॥१३. विपरीतसाधनः । तद्यथेति 25
PR, A II
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org