________________
३७
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। न्तरीयकत्वाद् विपक्षः। तत्र सर्वत्र विद्यतेऽनित्यत्वम् । प्रयत्नानन्तरीयकस्यानित्यत्वात् । यस्मादेवं तस्मादेतदपि अनित्यत्वं विद्युद्-घटसाधर्म्यण विद्युद्घटतुल्यवृत्तितयाऽनैकान्तिकम्। भावनिकामाह- किं घटवत् अनित्यत्वात् प्रयत्नानन्तरीयकः शब्दः आहोश्विद् विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक 5 इति ? प्रकटार्थम् ।
विपक्षैकदेशवृत्तिः सपक्षव्यापी । समासः सुकर एव । उदाहरणमाहयथा प्रयत्नानन्तरीयकः शब्द इत्यादि उक्तवैपरीत्येन स्वधिया भावनीयमिति ।
उभयपक्षैकदेशवृत्तिः । उभयपक्षयोः सपक्षविपक्षयोरेकदेशे वृत्तिरस्येति उभयपक्षैकदेशवृत्तिः । उदाहरणमाह – यथा नित्यः शब्द इत्यादि निगदसिद्धम्। 10 तथा विरुद्धाव्यभिचारी । अधिकृतहेत्वनुमेयविरुद्धार्थसाँधको विरुद्धः। 10
विरुद्धं न व्यभिचरतीति विरुद्धाव्यभिचारी । उपन्यस्तः सन् तथाविधार्थानिराकृतेः प्रतियोगिनं न व्यभिचरतीति भावः । ततश्चानेन प्रतियोगिोंध्यमपाकृत्य हेतुप्रयोगः कर्तव्य इत्येतदाह । अन्ये तु विरुद्धश्चासावव्यभिचारी चै विरुद्धाव्यभिचारीति व्याचक्षते। इदं पुनरयुक्तम् , विरोधादनेकान्तवादापत्तेश्च । उदाहरणमाह – यथा 15 अनित्यः शब्दः, कृतकत्वाद्, घटवदिति वैशेषिकेणोक्ते मीमांसक आह– नित्य: 15
शब्दः, श्रावणत्वात्, शब्दत्ववत् । शब्दत्वं हि नाम वेणु-वीणा-मृदङ्गपणवादिभेदभिन्नेषु सर्वशब्देषु शब्द इत्यभिन्नाभिधानप्रत्ययनिबन्धनं सामान्यविशेषसंज्ञितं नित्यमिति । उभयोः संशयहेतुत्वादिति, एकत्र धर्मिणि उभयोः कृतकत्व-श्रावणत्वयोः संशयहेतुत्वात् संदेहहेतुत्वात् । तथा चैकत्र धर्मिणि कृतकत्व
20 १. नित्यः शब्दोऽमूर्तत्वादिति । नित्यः पक्षोऽस्य आकाशपरमाण्वादिः सपक्षः । तत्रैकदेशे आकाशादौ 20
विद्यतेऽमूर्तत्वं न परमाणौ । अनित्यः पक्षोऽस्य घट-सुखादिर्विपक्षः तत्रैकदेशे सुखादौ विद्यतेऽमूर्तत्वं न घटादौ। तस्मादेतदपि सुखा-ऽऽकाशसाधयेणाकान्तिकम् । एतदपि सूत्रं निगदसिद्धम् P२, A॥ २. ०र्थप्रसा. P२, A ॥ ३. नित्यत्वलक्षणार्थानिराकृतेः लि २॥ ४. ग्रन्थेन टि० J२॥ ५. अनित्यत्वं टि०J२॥ ६. मेव V ॥ ७. यथा-अनित्यः शब्दः कृतकत्वात् घटवत् । नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्। 25 उभयोः संशयहेतुत्वात् द्वावप्येकोऽनैकान्तिकः समुदितावेव । अनित्यः शब्दः P२, A ॥ ८. सर्वशब्देषु 25
वर्तमानत्वात् समान्यं स्वात्मनि अवर्तनाद् विशेषः टि०J२ ॥ ९. 'त्वादिति v ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org