________________
३६
हरिभद्रसूरिविरचितटीकासहितं विपक्षे घटादौ वर्तत इति संशयनिमित्तम् । अत एवाह- तंद्धीत्यादि । तत् श्रावणत्वम् । हिः उपप्रदर्शने । नित्यानित्यपक्षाभ्यां नित्यानित्यार्थाभ्यां व्यावृत्तत्वात् अविद्यमानत्वात् । संशयहेतुरिति योग: । अन्यत्र वर्तिष्यत इत्येतदपि निराकुर्वन्नाहनित्या-ऽनित्यविनिर्मुक्तस्य चान्यस्य असंभवात् । यदस्ति तेन नित्येन वा 5 भवितव्यमनित्येन वा, नान्यथा, विरोधादतिप्रसङ्गाच्च । अतः संशयहेतुः 5 संशयकारणम् । कथमित्याह - किंभूतस्येत्यादि, किंभूतस्येति किंप्रकारस्य किं नित्यस्याहोश्विदनित्यस्य, अस्येति प्रस्तुतस्य शब्दस्य श्रावणत्वमिति,एतदुक्तं भवति-यदि तदन्यत्र नित्ये वाऽनित्ये वोपलब्धं भवति ततस्तबैलेनेतरत्रापि निश्चयो
युज्यते, नान्यथा । विपर्ययकल्पनाया अप्यनिवारितप्रसरत्वादिति। अत्र बहु वक्तव्यम्। 10 अलं प्रसङ्गेन । आक्षेप-परिहारौ पूर्ववत् । एवं शेषेष्वपि भावनीयमिति। 10
संपेक्षैकदेशवृत्तिरित्यादि । समानः पक्ष: सपक्षः, तस्यैकदेशः सपक्षैकदेशः, तस्मिन् वृत्तिरस्येति सपक्षैकदेशवृत्तिः । तथा विसदृश: पक्षो विपक्षः, तं व्याप्तुं शीलमस्येति विपक्षव्यापी । उदाहरणमाह- यथा अप्रयत्नानन्तरीयकः
शब्दोऽनित्यत्वादिति । शब्दो धर्मी । अप्रयत्नानन्तरीयकत्वं साध्यो धर्मः । 15 अनित्यत्वादिति हेतुः । तत्र अप्रयत्नानन्तरीयकः पक्षः अप्रयत्नानन्तरीयकोऽर्थः। 15
अस्य साध्यस्य विद्युदाकाशादिः पदार्थसंघातः, किम् ? सपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम्, नाकाशादौ । नित्यत्वात्तस्य । तथा घटादिः प्रयत्नान
१. वर्तत इति संशयहेतुरिति योगः । तद्धीत्यादि P३ ॥ २. तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वात् । तत् P२,
A ॥ ३. उपद० J२मू०,२ ॥ ४. इति इदमपि V ॥ ५. “स्य चासंभवात् V ॥ ६. वात् संशयहेतुः। यदस्ति P२, 20 A ॥ ७. नित्येन वाऽनित्येन वा भवितव्यं अन्यथा विरो० J२ ॥ ८. किंभूतस्यास्य श्रावणत्वमिति । किंप्रका० 20
P२, A ॥ ९. किंभूतस्येति P३ मध्ये एव वर्तते ॥ १०. युज्येत J२ ॥ ११. नायं संशयहेतुरित्यादि टि०७२ ॥ १२. सपक्षैकदेशवृत्तिर्विपक्षव्यापी यथा ।समानः P२, A ॥ १३. ०त्वात् शब्दो P३ । 'त्वात् । अप्रयत्नानन्तरीयक: पक्षोऽस्य विद्युदाकाशादिः सपक्ष: P२, A ॥ १४. नाकाशादौ प्रयत्नानन्तरीयक: पक्षोऽस्य घटादिविपक्षः ।
तत्र सर्वत्र विद्यतेऽनित्यत्वम् । तस्मादेतदपि विद्युद्-घटसाधर्म्यणानेका 25 प्रयत्नानन्तरीयकः शब्द आहोस्विद् विद्युदादिवदनित्यत्वात् अप्रयत्नानन्तरीयकः शब्द इति । प्रकटार्थम् । 25
विपक्षैकदेशवृत्तिः सपक्षव्यापी, समासः सुकर एव। उदाहरणमाह-यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् प्रयत्नानन्तरीयक: पक्षोऽस्य घटादिः सपक्षः । तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम्, प्रयत्नानन्तरीयकः पक्षोऽस्य विद्युदाकाशादिर्विपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ । तस्मादेतदपि विद्युद्घटसाधर्म्यण पूर्ववदनैकान्तिकम् । इति सूत्रार्थ उक्तः वैपरीत्येन स्वधिया भावनीयम् P२, A ॥ १५. आकाशादेः टि०J२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org