________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। षट् प्रकारा अस्येति षट्प्रकारः षड्विध इत्यर्थः । भेदानेवाह- साधारण इत्यादि अन्वर्थम् । प्रत्युदाहरणमेव वक्ष्यामः । तत्र साधारणः प्रमेयत्वान्नित्य इति । तत्रेति पूर्ववत् । द्वयोर्बहूनां वा यः सामान्यः स साधारणः । प्रमीयते इति
प्रमेयो ज्ञेय इत्यर्थः, तद्भावः प्रमेयत्वम्, तस्मात् प्रमेयत्वात् प्रमाणपरिच्छेद्यत्वात् । 5 नित्य इत्यत्र शब्दाख्यो धर्मी गम्यते एव । इदं च सपक्षेतराकाश-घटादिभावेन 5
साधारणत्वात् संशयनिमित्तमिति । आह च - तद्धि नित्यानित्येत्यादि । तत् प्रमेयत्वं धर्मः । हिः उपप्रदर्शने । नित्यश्चानित्यश्च नित्यानित्यौ, नित्यानित्यौ च तौ पक्षौ च नित्यानित्यपक्षौ, तैयोर्नित्यानित्यपक्षयोरित्यर्थः । किम् ?
साधारणत्वात् तुल्यवृत्तित्वादनैकान्तिकम् । प्रयोगत एव दर्शयति - किं घटवत् 10 प्रमेयत्वादनित्यः शब्दः आहोश्विदाकाशवन्नित्य इति प्रकटार्थम् । अत्राह-नायं 10
संशयहेतुः हेतुः । एतत्प्रयोगमन्तरेण प्रागेव संशयस्य भावात् तद्भावभावित्वानुपपत्तेः । उक्तं च -
अनैकान्तिकभेदाश्च नैव संशीतिकारणम् । संदेहे सति हेतूक्तेस्तद्भावस्याविशेषतः ॥[ ] इत्यादि ।
नैतदेवम् । मूलसंशयस्याविवक्षितत्वात् । 'तमन्तरेणापि प्रयोगोपपत्तेश्च । 15 क्रियते च विपर्यस्तमतिप्रभृतिप्रतिपत्त्यर्थमपि प्रयोगः। तत्रापि च संशयहेतुत्वादनैकान्तिकत्वमिति ।
असाधारण इत्यादि । साधारणविलक्षणः असाधारण: असामान्यः, पक्षधर्मः सन् सपक्ष-विपक्षाभ्यां व्यावृत्त इत्यर्थः । उदाहरणमाह- श्रावणत्वान्नित्य । " इति । श्रवणेन्द्रियग्राह्यः श्रावणः, तद्भावः श्रावणत्वम्, तस्मात् नित्यः अविनाशी, शब्द इति गम्यते । तत्रेदं श्रावणत्वं स्वधर्मिणं विहाय न सपक्षे आकाशादौ नापि
१. इति नास्ति J२, P२, A ॥ २. तद्धि नित्यानित्यपक्षयोः साधारणत्वादनैकान्तिकम्। तत् P२, A || ३. धर्म: P३सं. मध्ये एव वर्तते ॥ ४. उपदर्शने J२, P२, A, R. ॥ ५. नित्यानित्यौ तौ च तौ पक्षी 25 च P३,R. ॥ ६. तयोर्नित्यानित्योरि० P३, J२मू,VI तयोर्नित्यानित्ययोरर्थयोरि० सं० ॥ ७. हेतुः नास्ति 25
P२, ३, A V, R. ॥ ८. संशयभावात् P३०, P२, A ॥ ९. हेतु टि० २ १०. संशीतिभावस्य टि०७२ ११. संशयम् टि०J२, A ॥ १२. मतिप्रतिपत्त्य० ॥२॥ १३. असाधारण: श्रावणत्वान्नित्यः । साधारण. P२, A॥ १४. प्राभाकरैः शब्दत्वं नाभ्युपगतमिति तान् प्रति शब्दत्वं दृष्टान्तो न सिद्ध इत्यसिद्धो हेत्वाभास: टिOJ२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org