________________
हरिभद्रसूरिविरचितटीकासहितं सपक्षैकदेशवृत्तिर्विपक्षव्यापी यथा अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वादिति । अप्रयत्नानन्तरीयकः पक्षोऽस्य विद्युदाकाशादिः सपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिर्विपक्षः । तत्र सर्वत्र विद्यते5 ऽनित्यत्वम्। एतदपि विद्युद्-घटसाधयेणानैकान्तिकम्- किं 5
घटवदनित्यत्वात् प्रयत्नानन्तरीयकः शब्द आहोश्विद् विद्युदादिवदनित्यत्वादप्रयत्नानन्तरीयक इति ? ।
__ विपक्षैकदेशवृत्तिः सपक्षव्यापी, यथा प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात् । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिः सपक्षः । 10 तत्र सर्वत्र विद्यतेऽनित्यत्वम् । अप्रयत्नानन्तरीयकः पक्षोऽस्य विपक्षो 10 विद्युदाकाशादिः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम्, नाकाशादौ । तस्मादेतदपि विद्युद्-घटसाधर्म्यण अनैकान्तिकम् ।
उभयपक्षैकदेशवृत्तिर्यथा- नित्यः शब्दोऽमूर्तत्वादिति । नित्यः पक्षोऽस्याऽऽकाश-परमाण्वादिः सपक्षः । तत्रामूर्त्तत्वमाकाशे विद्यते, 15 न परमाणौ । अनित्यः पक्षोऽस्य घट-सुखादिर्विपक्षः। तत्रैकदेशे 15
सुखादौ विद्यतेऽमूर्तत्वं न घटादौ । तस्मादयमपि सुखा-ऽऽकाशसाधर्म्यणानैकान्तिकः ।।
विरुद्धाव्यभिचारी यथा- अनित्यः शब्दः कृतकत्वाद् घटवदिति। नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति । उभयोः 20 संशयहेतुत्वाद् द्वावप्येतावेकोऽनैकान्तिकः भवति समुदितावेव । 20
___टी० [११], सांप्रतम् अनैकान्तिक उच्यते । स च अनैकान्तिकः षट्प्रकारः, एकान्ते भव ऐकान्तिकः । न ऐकान्तिकोऽनैकान्तिकः।
१. स च षट्प्रकार: षड्विधः एकान्ते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org