________________
10
__दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। प्रत्याश्रयासिद्धः । धर्मिण एवासिद्धत्वात् । तथा च तस्यायं सिद्धान्तः - पञ्च इमानि भिक्षवः संज्ञामात्रं १ प्रतिज्ञामात्रं २ संवृतिमात्रं ३ व्यवहारमात्रं ४ कल्पनामात्रम् ५ । कतमानि पञ्च? अतीत: अद्धा १, अनागतः अद्धा २, प्रतिसंख्यानिरोधः
३,आकाशम् ४, पुद्गल ५ इति । ननु चान्योऽप्यस्ति असिद्धः, स च द्विधा5 प्रतिज्ञार्थैकदेशासिँद्धः । यथा-अनित्यः शब्दोऽनित्यत्वात्। अव्यापकासिद्धश्चेति । 5 यथा-सचेतनास्तरवः स्वापात् । स कस्मान्नोक्तः? आचार्य आह–अन्तर्भावात् । क्व पुनरन्तर्भाव इति चेत्, उभयासिद्धे । तस्माददोषः । आहयद्येवमसिद्धभेदद्वयमेवास्तु उभयासिद्धोऽन्यतरासिद्धश्चेति, शेषद्वयस्यात्रैवान्तर्भावात् । तथा चान्यैरप्युक्तम्10 असिद्धभेदौ द्वावेव द्वयोरन्यतरस्य वा ॥[ ] इत्यादि।
नैतदेवम्। धर्म्यसिद्धि-हेतुसंदेहोपाधिद्वारेण भेदविशेषसिद्धेः, विनेयव्युत्पत्तिफलत्वाच्च शास्त्रारम्भस्य । पर्याप्तं विस्तरेण । उक्तोऽसिद्धः ।
सू० [११], अनैकान्तिकः षट्प्रकारः । साधारणः १, असाधारण: २, सपक्षैकदेशवृत्तिर्विपक्षव्यापी ३, विपक्षैकदेशवृत्तिः 15 सपक्षव्यापी ४, उभयपक्षैकदेशवृत्ति: ५, विरुद्धाव्यभिचारी चेति ६ । 15
तत्र साधारणः प्रमेयत्वान्नित्य इति । तद्धि नित्यानित्यपक्षयोः साधारणत्वादनैकान्तिकम्-किं घटवत् प्रमेयत्वादनित्यः शब्द आहोश्विदाकाशवत् प्रमेयत्वान्नित्य इति? ।
असाधारण: श्रावणत्वान्नित्य इति । तद्धि नित्यानित्यपक्षाभ्यां 20 व्यावृत्तत्वान्नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् संशयहेतुः- 20 किंभूतस्यास्य श्रावणत्वमिति ?।
१. अभ्युपगममानं टि०J२॥ २. विचारासहं टि०७२॥ ३. सहेतुको विनाश: सन्तानोच्छेदो वा टि०J२॥ ४. अनित्यत्वं शब्दाभिव्यक्तिवादिनो मीमांसकस्य न सिद्धम्, तथा बौद्धस्यापि न हेतुत्वेन अपि तु साध्यत्वेनेति टि०J२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org