________________
३२
हरिभद्रसूरिविरचितटीकासहितं असिद्धः अन्यतरासिद्धः । संदिह्यते स्म संदिग्धः । संदिग्धत्वादेवासिद्धः संदिग्धासिद्धः । आश्रयो धर्मी, सोऽसिद्धो यस्यासौ आश्रयासिद्धः। चः समुच्चये। इतिशब्दः परिसमाप्त्यर्थः ।
इदानीमुदाहरणान्याह - तत्र शब्दानित्यत्वे सांध्ये इत्यादि । तत्रेति पूर्ववत् । 5 शब्दानित्यत्वे साध्ये अनित्यः शब्दः इत्यस्मिन् चाक्षुषत्वादिति । 5
चक्षुरिन्द्रियग्राह्यश्चाक्षुषः, तद्भावश्चाक्षुषत्वम् , तस्मादिति, अयं हेतुरुभयासिद्धः । तथाहि- चाक्षुषत्वं न वादिनः सिद्धं नापि प्रतिवादिनः । श्रोत्रेन्द्रियग्राह्यत्वाच्छब्दस्य। कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रति अन्यतरासिद्धः । 'शब्दानित्यत्वे
साध्ये' इति वर्तते, कृतकत्वादित्ययं हेतुः शब्दाभिव्यक्तिवादिनं मीमांसकं कापिलं 10 वा प्रत्यन्यतरासिद्धः । तथाहि-न तस्य तौल्वोष्ठपुटादिभिः क्रियते शब्दः, 10 किन्त्वभिव्यज्यत इति ।
तथा बाष्पादिभावेनेत्यादि। बाष्पो जलादिप्रभवः, स आदिर्यस्य रेणुवादेः स बाष्पादिः, तस्य भावः तत्ता, तेन बाष्पादिभावेन । संदिह्यमानः 'किमयं धूम
उत बाष्प उत रेणुवर्तिः' इति संदेहमापाद्यमानः । भूतसंघातः सूक्ष्मः क्षित्यादिसमूहः। 15 किम् ? । अग्नेः सिद्धिरग्मिसिद्धिः, तस्यामग्निसिद्धौ ‘अग्निरत्र धूमात्' इति 15
उपदिश्यमानः प्रोच्यमानः संदिग्धासिद्धः । निश्चितो हि धूमो धूमत्वेन हुतभुजं गमयति, नानिश्चित इति ।
तथा ,व्यमाकाशमित्यादि । आकाशमिति धर्मिनिर्देशः। द्रव्यमिति साध्यो धर्मः। गुणाश्रयत्वादिति हेतुः । गुणाश्चास्य षट् । तद्यथा- संख्या १, परिमाणम् 20 २, पृथक्त्वम् ३, संयोगः ४, विभागः ५, शब्दश्चेति ६ । गुणानामाश्रयः गुणाश्रयः, 20 तेद्भावस्तत्त्वम्, तस्मात् गुणाश्रयत्वादिति, अयं हेतुराकाशासत्त्ववादिनं बौद्धं
१. साध्ये चाक्षुषत्वादित्युभयासिद्धः । तत्रेति P.२, A|| २. तद्भावस्तस्मात् P२ A॥ ३. ताल्वादिभिः P२, A॥ ४. ता बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपदिश्यमानः
सन्दिग्धासिद्धः । बाष्पो P२, A ॥ ५. सत्ता R विना ॥ ६. “मापद्य' R तथा पञ्जिकां विना ॥ ७. तथा 25 नास्ति P२, A ॥ ८ द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रयासिद्धः। आकाशमिति 25
P२, A ॥ ९. वियोग: J२॥ १०. 'श्चेति तत्र गुणा' V॥ ११. तद्भावस्तस्मात् P२, A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org