________________
३१
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। च 'अश्रावणः शब्दः' इत्येवमादिषु पञ्चसु प्रत्यक्षादिप्रसिद्धं धर्मयाथात्म्यमिति भावना। . तथ प्रतिपादनासंभवतस्त्रयाणाम्। तत्र प्रतिपाद्यतेऽनेनेति प्रतिपादयतीति वा प्रतिपादनम्, परप्रत्यायनमिति हृदयम्। तस्यासंभवः प्रतिपादनासंभवः, तस्मात् प्रतिपादनासंभवतः । न च दृष्टान्तादौवपि विप्रतिपत्तौ प्रतिपादनं संभवति । तथा 5 साधनवैफल्यतश्चैकस्य । विफलस्य भावो वैफल्यम्, साधनस्य वैफल्यं 5 साधनवैफल्यम्, तस्मात् साधनवैफल्यतः । चः समुच्चये। ततश्च एषां वचनानि प्रतिज्ञादोषाः इति, प्रतिज्ञा पक्ष इत्यनर्थान्तरम्, दोषा आभासा इति च तुल्यम्। इत्यभिहिताः पक्षाभासाः ।
सू० [९], असिद्धा-ऽनैकान्तिक-विरुद्धा हेत्वाभासाः । 10 टी० [९], सांप्रतं हेत्वाभासानभिधित्सुराह- असिद्धा-ऽनैकान्तिक- 10 विरुद्धा हेत्वाभासाः। असिद्धश्च अनैकान्तिकश्च विरुद्धश्च असिद्धा-ऽनैकान्तिकविरुद्धाः । हेतुवदाभासन्ते इति हेत्वाभासाः ।
सू० [१०], तत्रासिद्धश्चतुःप्रकारः, तद्यथा- उभयासिद्धः १, अन्यतरासिद्धः २, सन्दिग्धासिद्धः ३, आश्रयासिद्धश्चेति ४ । 15 तत्र शब्दानित्यत्वे साध्ये चाक्षुषत्वादित्युभयासिद्धः । 15
कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रत्यन्यतरासिद्धः।
बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपदिश्यमानः संदिग्धासिद्धः ।
द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रयासिद्धः। 20 टी० [१०], यथोद्देशं निर्देश इति न्यायमङ्गीकृत्यासिद्धप्रतिपिपादयिषयाह- 20
तत्रासिद्धश्चतुःप्रकारः। तत्र तेषु असिद्धादिषु । असिद्धः, सिध्यति स्म सिद्धः प्रतीतः, न सिद्धः असिद्धः अप्रतीतः । से च चतुःप्रकारश्चतुर्भेदः । प्रकारान् दर्शयति- तद्यथा-उभयासिद्ध इत्यादि । तद्यथेति पूर्ववत् । उभयोर्वादिप्रतिवादिनोः असिद्ध उभयासिद्धः । अन्यतरस्य वादिनः प्रतिवादिनो वा
25 १. दिसिद्धं P२, A ।। २. 'नेन प्रति' P२,३, A ॥ ३. उक्तेऽपि टि०J२॥ ४. न्यायमुररीकृत्या- 25 सिद्धप्रतिपादनायाह P३॥ ५. स च नास्ति J२ विना॥ ६ 'सिद्धोऽन्यतरासिद्धः २ सन्दिग्धासिद्धः ३ आश्रयासिद्ध ४ चेति। तद्यथेति P२, A ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org