Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 74
________________ ४६ हरिभद्रसूरिविरचितटीकासहितं धर्मोऽमूर्तत्वलक्षणोऽस्त्यनित्यत्वान्मूर्तत्वाच्च घंटस्येति । तथा आकाशवदित्यविद्यमानोभयासिद्धः । नित्यः शब्दोऽभूतत्वादाकाशवदिति । अयमुभयसद्भावात् कथमुभयासिद्ध इत्याशक्याह- तदसत्त्ववादिनं प्रति, आकाशासत्त्ववादिनं बौद्धं प्रति सांख्यस्येत्यर्थः । सति हि तस्मिन्नित्यत्वादिधर्मचिन्ता नान्यथेति ।। 5 अनन्वय इत्यादि । अविद्यमानान्वयोऽनन्वयः अप्रदर्शितान्वय इत्यर्थः । 5. अन्वयोऽनुगेमो व्याप्तिरिति अनर्थान्तरम् । लक्षणमाह- यत्रेत्यादि । यत्रेत्यभिधेयमाह। विनाऽन्वयेन विना व्याप्तिदर्शनेन साध्यसाधनयोः साध्यहेत्वोरित्यर्थः सहभाव एकत्रवृत्तिमात्रम् । प्रदर्श्यते कथ्यते आख्यायते, न वीप्सया साध्यानुगतो हेतुरिति। उदाहरणमाह- यथा घटे कृतकत्वमनित्यं च दृष्टमिति। 10 घटः कृतकत्वा-ऽनित्यत्वयोराश्रय इति । एवं सति आश्रयाश्रयिभावमात्रा- 10 भिधानादन्यत्र व्यभिचारसंभवादिष्टार्थसाधकत्वानुपपत्तिः इति। विपरीतान्वय इत्यादि । विपरीतो विपर्यस्तवृत्तिरन्वयोऽनुगमो यस्मिन् स तथाविधः । उदाहरणमाह-यथा यत् कृतकं तदनित्यं दृष्टमित्येवं वक्तव्ये यदनित्यं तत् कृतकमिति ब्रवीति । प्राक् साधनधर्ममनुच्चार्य साध्यधर्ममुच्चारयति। 15 आह– एवमपि को दोषः ? इति । उच्यते । न्यायमुंद्राव्यति-क्रमः । अन्यत्र 15 व्याप्तिव्यभिचारात् । तथाहि-अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादि-त्यत्र यद्यदनित्यं न तत्तत् प्रयत्नानन्तरीयकम्, अनित्यानामपि विद्युदादीनामप्रयत्नानन्तरीयकत्वात्। इत्यलं प्रसङ्गेन । अयं साधर्म्यण दृष्टान्ताभासवर्ग इति । १. 'णोऽनित्य' J२ ॥ २. घटस्य तथा P२, A ॥ ३. "सिद्धः ततश्च नित्य: V॥ ४. अनन्वयो यत्र 20 विनान्वयेन साध्यसाधनयोः सहभाव: प्रदर्श्यते यथा घटे कृतकत्वमनित्यत्वं च दृष्टमिति सूत्रम् । अविद्यमाना' 20 P२, A ॥ ५. 'गम इत्यनर्था P२, A॥ ६. 'प्तिप्रद P२, A, R. || ७. 'यते च न J२॥ ८. 'गतहेतुः उदा' P२, A॥ ९. विपरीतान्वयो यथा यत्कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति ब्रवीति। विपरीतो P२, A॥ १०. विपर्यवृत्ति P२, A॥ ११. उदाहरणमाह यथा नास्ति J२ ॥ १२. “मिति P२, A.V ॥ १३. 'द्राति' J२, P२, A ॥ १४. न नास्ति P२, A, R. || १५. 'भासः समाप्त: V॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192