Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 68
________________ ४० हरिभद्रसूरिविरचितटीकासहितं टी० [१३], धर्मविशेषविपरीत इत्यादि अस्योदाहरणं यथा परार्थाश्चक्षुरादय इत्यादि। कः पुनरेवमाह ? सांख्यो बौद्धं प्रति । इह चक्षुरादयो धर्मिणः । आदिशब्दात् शेषेन्द्रिय-महदहकारादिपरिग्रहः। परार्थत्वं साध्यधर्मः। अस्य च विशेषोऽसंहतपरार्थत्वमिष्टम् । अन्यथा सिद्धसाध्यतापत्त्या प्रयोगवैफल्यप्रसङ्गः । संघातत्वादिति हेतुः । तत्र द्वयोर्बहूनां वा मेलक: संघातः, तस्य 5 भावः संघातत्वम्, तस्मात् संघातत्वात् । शयनासनाद्यङ्गवदिति दृष्टान्तः। शयनं पर्यटकादि, आसनमासन्दकादि। तदङ्गानि प्रतीतान्येव । यथैतदङ्गानि संघातत्वाद् देवदत्तादिपरार्थानि वर्त्तन्ते एवं चक्षुरादयोऽपीति भावार्थः । अधुना विरुद्धत्वमाह अयमित्यादि । अयं हि हेतुः संघातत्वलक्षणो यथा येन प्रकारेण पारार्थ्यं परार्थभावं । चक्षुरादीनां साधयति तथा तेनैव प्रकारेण संहतत्वमपि सावयवत्वमपि परस्यात्मनः .. साधयति । तेनाप्यविनाभूतत्वात् । तथा चाह- उभयत्राव्यभिचारात् । उभयत्रेति पाराक्षं संहतत्वे च अव्यभिचाराद् गमकत्वादित्यर्थः। तथा चैवमपि वक्तुं शक्यत एव–संहतपरार्थाश्चक्षुरादयः संघातत्वात् शयनासनाद्यगवदिति । शयनासनाद्यगानि हि संहतस्य कर-चरणोरु-ग्रीवादिमत एवार्थं कुर्वन्ति नान्यस्य, तथोपलब्धेरिति । 15 आह.–विपक्ष एव भावाद् विरुद्ध इति सामान्यं विरुद्धलक्षणम्, तत् कथमिहोपपद्यते? इति । उच्यते । असंहतपरविपक्षो हि संहतपर इति तत्रैव वृत्तिदर्शनात् किं नोपपद्यते?। आक्षेप-परिहारौ पूर्ववत् । _धर्मिस्वरूपविपरीतेत्यादि । धर्मा अस्य विद्यन्ते इति धर्मी । उदाहरणं तु यथा न द्रव्यमित्यादि । कः पुनरेवमाह ? । वैशेषिको बौद्धान् प्रति । केन पुनः संबन्धेन ? इति । उच्यते । तस्य सिद्धान्ते द्रव्य-गुण-कर्म-सामान्य-विशेष 20 १. विपरीतसाधनः । अस्यो'PRA ॥ २. दयः संघातत्वात् शयनासनाद्यंगवदिति । कः पुन P२,A || जइह च चक्षु० इति पञ्जिकासंमतः पाठः ।। ३. महदिति बुद्धेराख्याटि०J२ ॥४. पारार्थ्यं सा' J२,R. ||५. मीलकः P३मू०, P२, A ॥ ६. पल्यंकादि J२, R. ।। ७. अयं हि हेतुर्यथा पारार्थ्यं चक्षुरादीनां साधयति तथा सहंतत्वमपि परस्यात्मनः साधयति ।अयं हि हेतुः P२, A ॥ ८. हि नास्ति J२, V, R. ॥ ९. संघातत्वमपि परस्या' P२, A ॥१०. संहतत्वेनापि टि०७२ ॥११. तथाऽत्रैवमपि P२, A ॥१२.शयनाद्यंगानि J२, . ॥१३. सामान्यविरु'२ ॥१४. 25 असंहतविपक्षो P२, A ॥ १५. संहत इति R. विना ॥१६. तत्रैव दर्शनात् P२, A ॥ १७. 'द्यते इति असिद्धाक्षेप' 25 v विना ॥१८. विपरीतसाधन: धर्मा P२, A ॥१९. द्रव्यं न कर्म न गुणो भाव इति एकद्रव्यत्त्वात् गुण-कर्मसु च भावात सामान्यविशेषवदिति कः पुन ' P२ A॥ २०. प्रस्तावेन टिOJ२॥ २१. वैशेषिकस्य टिOJ२॥ २२. सिद्धान्तो विना ॥ 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192