________________
बौद्धाचार्यश्री दिङ्नागविरचितं सू० [२], तत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि प्राश्रिकानामप्रतीतोऽर्थः प्रतिपाद्यत इति ।
सू० [३], तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः। प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः। तद्यथाअनित्यः शब्दो नित्यो वेति ।
सू० [४], हेतुस्त्रिरूपः । किं पुनस्त्रैरूप्यम् ? पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षे चासत्त्वमेव । कः पुनः सपक्षः, को वा
K = खंभातनगरे तपगच्छअमरजैनशालामध्ये विद्यमानः नीतिविजयजैनशास्त्रसंग्रहसत्क: कागजपत्रोपरिलिखितो जीर्णप्रायः प्राचीन आदर्शः, पोथी ३२४, ग्रन्थाङ्क: २७१६, पत्रसंख्या १-५ ।
K1 = वडोदरासमीपे छाणीग्रामे प्रवर्तकश्रीकान्तिविजयजीसत्के ज्ञानभाण्डागारे विद्यमानः कागजपत्रात्मक आदर्शः । ग्रन्थाङ्कः ३४० । पत्रसंख्या १-३ ।
___P1 पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः कागजपत्रात्मक आदर्शः, ग्रन्थाङ्क: २५२५ । पत्रसंख्या १-४ ।
P2 पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः कागजपत्रात्मक आदर्शः, ग्रन्थाङ्क: २८६७, पत्रसंख्या १-२ ।
P3 पाटणनगरे संघवीपाडाभाण्डागारसत्कः, किन्तु सम्प्रति श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः तालपत्रात्मक आदर्शः, डा०नं० १७१-२। मूलपत्रसंख्या २-६ । टीकापत्रसंख्या १-२३ ॥
R= श्रीरूपविजयजी डहेलानो जैन उपाश्रय-ग्रन्थभण्डार-दोशीवाडानी पोल अमदावाद-सत्क आदर्शः । डाबडा नंबर १०५, प्रतिनंबर ५३४४ । पत्रसंख्या- १-१३ । १-३A मध्ये न्यायप्रवेशकसूत्रं वर्तते । ३A-१३B मध्ये न्यायप्रवेशकटीका वर्तते ।
___V= वडोदरानगरे प्रवर्तकश्री कान्तिविजयजीसत्के ज्ञानभाण्डागारे विद्यमानः कागजपत्रात्मकः सटीक 20 आदर्शः । ग्रन्थाङ्कः १२७६ । पत्रसंख्या-मूलमात्रम् १, हारिभद्रीटीका २-६ ।
न्यायप्रवेशकस्य द्विविधा पाठपरम्परा दृश्यते , परस्परमपि हस्तलिखितादर्शेषु बहवः पाठभेदा दृश्यन्ते। ते च तत्र तत्र टिप्पनेषु अस्माभिर्दर्शिताः । यद्यपि तालपत्रनिर्दिष्टाः पाठाः प्राचीनतमाः, प्रायः त एव चास्माभिः मूले स्थापिताः, तथापि हरिभद्रसूरिविरचिता टीका P2 मध्ये विद्यमानां पाठपरम्परां प्राधान्येन अनुसरति इति बहुषु पाठेषु अस्माकमनुभव इति सुधीभिरवश्यं ज्ञेयम् । न्यायप्रवेशकसूत्रस्य द्वौ भोटभाषानुवादौ [Tibetan Translations]
अपि उपलभ्येते- एक: संस्कृताद्भोटभाषायां विहितोऽनुवादः,अपरस्तु संस्कृतभाषात: चीनभाषायां विहितमनुवादमवलम्ब्य 25 भोटभाषायां विहितोऽनुवादः । अनयोः संस्कृतात् परस्परं च पाठभेदा अनेकेषु स्थलेषु दृश्यन्ते ॥
१. नित्यः शब्दोऽनित्यो वेति P1, 3, K, K1,V.D ॥ २. मिति V । मेव निश्चितं । K ॥ ३. वा पुनर्वि R॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org