________________
न्यायप्रवेशकशास्त्रम् । विपक्ष इति? साध्यधर्मसामान्येन समानोऽर्थः सपक्षः । तद्यथाअनित्ये शब्दे साध्ये घटादिरनित्यः सपक्षः। विपक्षो यत्र साध्यं नास्ति, यन्नित्यं तदकृतकं दृष्टं यथाऽऽकाशमिति । तत्र कृतकत्वं प्रयत्नानन्तरीयकत्वं वा पक्षधर्म एव, सपक्ष एवास्ति, विपक्षे नास्त्येव। इत्यनित्यादौ हेतुः।
सू० [५], दृष्टान्तो द्विविध:- साधर्म्यण वैधhण च । तत्र साधर्येण तावत् यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते । तद्यथायत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति । वैधयेणापि यत्र साध्याभावे हेतोरभाव एव कथ्यते। तद्यथा- यन्नित्यं तदकृतकं दृष्टं यथाऽऽकाशमिति । नित्यशब्देनात्राऽनित्यत्वस्याभाव उच्यते । 10 अकृतकशब्देनापि कृतकत्वस्याभावः। यथा भावाभावोऽभाव इति। उक्ताः पक्षादयः ।
सू० [६], एषां वचनानि परप्रत्यायनकाले साधनमुक्तमिति । यथा- अनित्यः शब्द इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम्। यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति 15 सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाऽऽकाशमिति व्यतिरेकवचनम् । एतान्येव त्रयोऽवयवा इत्युच्यन्ते ।
सू० [७], साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभास इति, तद्यथा-प्रत्यक्षविरुद्धः १, अनुमानविरुद्धः २, आगमविरुद्धः ३, लोकविरुद्धः ४, स्ववचनविरुद्धः ५, अप्रसिद्धविशेषण: ६, 20 अप्रसिद्धविशेष्यः ७, अप्रसिद्धोभयः ८, प्रसिद्धसंबन्धश्चेति ९ ।
१. 'र्येण च वै D, K1सं. ॥ २-३. तद्यथा नास्ति J2, D ॥ ४. दृष्टं नास्ति (1।। ५. कृतकत्वस्य । यथा P3, K. ।। ६. साधनं यथा P2, D। साधनं तद्यथा VR । ७. यवा इत्युच्यते P1, 3 । यवा उच्यन्ते P2 ।। ८. भासस्तद्यथा P2,3, D, V॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org