SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ बौद्धाचार्यश्री दिङ्नागविरचितं सू० [८], तत्र प्रत्यक्षविरुद्धो यथा अश्रावणः शब्द इति । अनुमानविरुद्धो यथा नित्यो घट इति । आगमविरुद्धो यथा वैशेषिकस्य नित्यः शब्द इति साधयतः। लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्ख5 शुक्तिवदिति । स्ववचनविरुद्धो यथा माता मे वन्ध्या, पिता मे कुमारब्रह्मचारीति। अप्रसिद्धविशेषणो यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति। अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति। अप्रसिद्धोभयो यथा वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मेति । प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति । एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः 15 साधनवैफल्यंतश्चेति प्रतिज्ञादोषाः । उक्ताः पक्षाभासाः । सू० [९], असिद्धा-उनैकान्तिक-विरुद्धा हेत्वाभासाः । सू० [१०], तत्रासिद्धश्चतुःप्रकारः, तद्यथा- उभयासिद्धः १, अन्यतरासिद्धः २, सन्दिग्धासिद्धः ३, आश्रयासिद्धश्चेति ४ । तत्र शब्दानित्यत्वे साध्ये चाक्षुषत्वादित्युभयासिद्धः । 20 कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रत्यन्यतरासिद्धः । १. शब्दः । अनुमान J2 ।। २. शुक्तिकादि R. ।। ३. वन्ध्येति । अप्रसिद्ध P3, K, D, VII ४. तश्च प्रतिज्ञादोषा इति P3, K, DV ॥ ५. उक्ताः पक्षाभासा: P3, K मध्ये नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy