SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ न्यायप्रवेशकशास्त्रम् । बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपदिश्यमानः संदिग्धासिद्धः । द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रया सिद्धः । साधारणः १, 5 सू० [११], अनैकान्तिकः षट्प्रकारः असाधारणः २, सपक्षैकदेशवृत्तिर्विपक्षव्यापी ३, विपक्षैकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षैकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६ । तत्र साधारणः प्रमेयत्वान्नित्य इति । तद्धि नित्यानित्यपक्षयोः साधारणत्वादनैकान्तिकम् - किं घटवत् प्रमेयत्वादनित्यः शब्द आहोश्विदाकाशवत् प्रमेयत्वान्नित्य इति ? । असाधारणः श्रावणत्वान्नित्य इति । तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वान्नित्यानित्यविनिर्मुक्तस्य चान्यस्य चासंभवात् संशयहेतुःकिंभूतस्यास्य श्रावणत्वमिति ? | सपक्षैकदेशवृत्तिर्विपक्षव्यापी, यथा अप्रयत्नानन्तरीयकः शब्दोऽनित्यत्वादिति । अप्रयत्नानन्तरीयकः पक्षोऽस्य विद्युदा - 15 काशादिः सपक्षः । तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वम्, नाकाशादौ । प्रयत्नानन्तरीयकः पक्षोऽस्य घटादिर्विपक्ष: । तत्र सर्वत्र विद्यतेऽनित्यत्वम्। ऐँतदपि विद्युद्- घटसाधर्म्येणानैकान्तिकम् — किं Jain Education International - १. तथा द्रव्य° J1, J2, P2, D, V विना ।। २. आहोस्विदाकाशत्ववत् J2 | आहोस्विदाकाशवन्नित्य इतिP3, K, R॥ ३. 'रणो यथा श्रा R ॥ ४. चान्यस्यासंभवात् P2, 3, K, D, R, V ॥ ५. 'त्वात् । 20 P2, 3, K॥ ६. यकपक्षो J1, J2 ॥ ७ तथा प्रयत्ना° J1सं० ॥ ८. 'कपक्षो J1, J2, P3 ॥ ९. सर्वत्र घटादौ विद्यते P1, 2, D ॥ १० तस्मादेतदपि P2, 3, K, D, V, RI For Private & Personal Use Only 10 www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy