SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ बौद्धाचार्यश्री दिङ्नागविरचितं न्यायप्रवेशकशास्त्रम् । सू० [१], साधनं दूषणं चैव साभासं परसंविदे । प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥ -इति शास्त्रार्थसंग्रहः ॥ *अत्रेदमादाववधेयम्- बौद्धन्यायस्य पितृत्वेन [Father of the Buddhist Logic] प्रसिद्धेन बौद्धाचार्यदिङ्नागेन विरचितस्य न्यायप्रवेशकसूत्रस्य याकिनीमहत्तरासूनुना जैनाचार्यश्री हरिभद्रसूरिणा विरचितया टीक्या तदुपरि पार्श्वदेवगणिविरचितया पञ्जिकया च सह, प्राचीनांस्तालपत्रोपरि कागजपत्रोपरि च लिखितानादर्शानवलम्ब्य संशोधनं सम्पादनं च विधाय ग्रन्थोऽयं प्राचीनन्यायरसिकानां जनानां पुरतः प्रकाश्यते । न्यायप्रवेशकसूत्रस्य संस्कृतभाषायां विविधा आदर्शाः प्राप्यन्ते, तद्यथा -J1, J2, D, K, K1, P1, P2, P3, V । तेषां स्वरूपम् J1 = जेसलमेरदुर्गे जिनभद्रसूरिसंस्थापिते ज्ञानभाण्डागारे विद्यमानः तालपत्रात्मक: आदर्शः, ग्रन्थाङ्कः ३७४, पत्रसंख्या १-१०॥ J2 = जेसलमेरदुर्गे जिनभद्रसूरिसंस्थापिते ज्ञानभाण्डागारे विद्यमानः तालपत्रात्मक: आदर्शः, ग्रन्थाङ्कः ३७५ । J2 मध्येऽत्र १-१३४ पत्रेषु त्रयो ग्रन्थाः [१] न्यायप्रवेशकसूत्रम्, पत्रसंख्या-१-१७ A, [२] सर्वसिद्धान्तप्रवेशकः, पत्रसंख्या-१७ A- ४२ A, न्यायप्रवेशकटीका, पत्रसंख्या ४२ B-१३४ B| तत्र १३४ B मध्ये "श्री हरिभद्राचार्यकृतन्यायप्रवेशकटीका समाप्तेति । ग्रंथ ५९० ॥ संवत् १२०१ वर्षे माघमासीयचरमशकले तुरीयतिथौ तिमिरासहनवासरे श्री भृगुकच्छस्थितिमता पंडितेन यशसा सहितेन धवलेन पुस्तिकेयमलेखि ॥" ईदृश उल्लेखो वर्तते । अत: J2 आदर्श: प्राचीनतमो भाति। ___J2 मध्ये विद्यमानाः सर्वेऽपि पाठाः स्व. आगमप्रभाकरमुनिराजश्री पुण्यविजयजीमहाभागैः संगृहीता इति ते भूयो भूयो धन्यवादानहन्ति । D= डभोई [-दर्भावती]नगरे विद्यमानः मुक्ताबाईज्ञानमन्दिरे विजयजम्बूसूरिजीहस्तलि०कोशसत्कः तालपत्रोपरिलिखित आदर्शः । ग्रन्थाङ्कः १२७१८/१८ । पत्रसंख्या-१-७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy