________________
होसकती। क्योंकि जो अल्पज्ञानी है उसके आवरणादि दोषोंका अभाव नहीं होपाता । इसलिये अरहंतमें विद्यमान यह निर्दोषता उनकी (अरहंतकी) सर्वज्ञताको सिद्ध करती है। अर्हत्परमेष्ठीके वचन युक्ति तथा शास्त्रसे अविरोधी हैं इसलिये उनमें (अरहंतमे) निर्दोषताकी सिद्धि होती है। उनके माने हुए मुक्ति तथा संसार और उनके कारण अनेकधर्मात्मक चेतन तथा अचेतनखरूप तत्त्व किसी भी प्रत्यक्ष अथवा अनुमानादि प्रमाणसे बाधित नहीं हैं इसलिये उनके वचनमें युक्ति और आगमसे अविरोध अच्छी तरह सिद्ध होता है।
एवमपि सर्वज्ञत्वमहेत एवेति कथं कपिलादीनामपि सम्भाव्यमानत्वादिति चेदुच्यते-कपिलादयो न सर्वज्ञाः सदोषत्वात् , सदोषत्वं तु तेषां न्यायागमविरुद्धभाषित्वात् । तच्च तदभिमतमुक्त्यादितत्त्वस्य सर्वथैकान्तस्य च प्रमाणबाधित। त्वात् । तदुक्तं स्वामिभिरेव
"स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥१॥ त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम् ।
आप्ताभिमानदग्धानां स्खेष्टं दृष्टेन बाध्यते ॥ २॥ इति कारिकाद्वयेनैतयोरेव परात्माभिमततत्त्वबाधाबाधयोः समर्थनं प्रस्तुत्य भावैकान्ते इत्युपक्रम्य स्यात्कारः सत्यलाञ्छन इत्यन्त आप्तमीमांसासन्दर्भ इति कृतं विस्तरेण । तदेवमतीन्द्रियं केवलज्ञानमहत एवेति सिद्धम् । तद्वचनप्रामाण्याचावधिमनःपर्यययोरतीन्द्रिययोः सिद्धिरित्यतीन्द्रियप्रत्यक्षमनवद्यम् । ततः स्थितं सांव्यवहारिक पारमार्थिकं चेति द्विविधं प्रत्यक्षमिति ।
न्या० दी. ४