Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
२ अध्यायः }
काव्यालंकारः ।
११
नतु नामादीनां पञ्चानामेव युगपत्सद्भावे । कीदृशां शब्दानाम् । परस्परं सव्यपेक्षवृत्तीनां अन्योन्यं साकाङ्क्षव्यापाराणाम् । न त्वेवंविधानां यथा - 'आषाढी कार्तिकी मासी वचा हिङ हरीतकी । पश्यतैतन्महच्चित्रमायुर्मर्माणि कृन्तति ॥' तथा एकपराणाम् । एकं वस्तु साधयितुमुद्यतानामित्यर्थः । तथा अनाकाङ्क्षः । साकाङ्क्षश्चेन्न भवति । यस्मादाख्यातं विना शब्दसमुदायः साकाङ्क्षो भवति । तमपेक्षत इत्यर्थः ॥
अथ वाक्यगुणानाह -
अन्यूनाधिकवाचकसुक्रमपुष्टार्थशब्दचारुपदम् । क्षोदक्षमक्षूणं सुमतिर्वाक्यं प्रयुञ्जीत ॥ ८ ॥
अन्यूनेति । शब्दाश्च ते चारुपदानि च शोभनपदानि च शब्दचारुपदानि, ऊनानि चाधिकानि चोनाधिकानि, नितरामूनाधिकानि न्यूनाधिकानि, न तथा अन्यूनाधिकानि तानि च तानि वाचकानि च, सुक्रमाणि च पुष्टार्थानि च शब्दचारुपदानि यत्र वाक्ये तत्तथाभूतं वाक्यं प्रयुञ्जीतेति संबन्धः । तत्रान्यूनग्रहणाद्यत्र कंचिच्छब्दं विना दुष्टार्थप्रतीतिर्विवक्षितार्थाप्रतिपत्तिरेव वा भवति तन्न्यूनपदं वाक्यं निरस्तम् । यथा - 'संपदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव पेलवमायुः किं धनैः परहितानि कुरुध्वम् ॥' अत्र हि धनशब्दादनन्तरं यावत्कार्यशब्दो न प्रयुक्तस्तावत्. 'धनैः किमिति परहितानि कुरुध्वम्' । मा कुरुत इति दुष्टोऽर्थः प्रतीयते । विवक्षितार्थाप्रतीतिर्यथा - 'सीसप डिच्छियगंगं पणमिय संझं नमह नाहं । अत्र 'संझं' शब्दादनन्तरं 'ततः ' शब्दमन्तरेण न ज्ञायते किं 'प्रणम्य संध्यां ततो नाथं नमत' आहोस्वित् ' प्रणतसंध्यं नाथं नमत' इति । निशब्दग्रहणाद्यत्र विनापि पदमसाधारणविशेषणोपादानात्तदनुरूपकारकप्रयोगाद्वा । विवक्षितपदार्थप्रतीतिस्तदूनमात्रं साध्वेव । यथा-' वः पायात्कला चान्द्री यस्य मूर्ध्नि विराजते । गौरीनखाग्रधारेव भग्नरूढा कचग्रहे ॥' अत्र ह्यसाधारणविशेषणैः शंभुरित्यनुक्तमपि लभ्यते । अनुरूपकारकप्रयोगात्पदार्थप्रतीतिर्यथा - 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः ॥' अत्र छेदसेकालंकारा अनुक्ता अपि परश्वाद्युपादानात्प्रतीयन्ते । नहि तेषां छेदा - देरन्यो व्यापार इति । अधिकग्रहणाद्यत्र शब्दान्तरेणोक्तेऽप्यर्थे पुनस्तदर्थपदं प्रयुज्यते तन्निरस्तम् । यथा—'स्फारध्वानाम्बुदाली वलयपरिकरालोकनं प्रेमदानो:' इत्यत्रालीशब्देन मे - घानां बाहुल्यं प्रतिपादितमिति तदर्थों वलय परिकरशब्दौ निष्प्रयोजनाविति । निग्रहणादधिकमात्रं साध्वेव । यथा - 'नादेन यस्य सुरशत्रुविलासिनीनां काथ्यो भवन्ति शिथिला जघनस्थलेषु' । अत्र हि काव्यास्तत्स्थानत्वादेव जघनस्थले लब्धे तदुपादानमधिकमात्रमिति । वाचकग्रहणमवाचकनिवृत्त्यर्थम् । यथा - ' —'लावण्यसिन्धुरपरेव हि केयमत्र
I-
1
१. 'अक्षूणहे तोरिव पांसुतल्पान्' इति विक्रमाङ्कदेवचरितम् (७।४० ). 'अक्षुण्णम्' इति पाठः सम्यग्भाति.

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 188