Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
काव्यमाला।
नाम्नामिति । नाम्नां वृत्तिर्वर्तनं द्वेधा, समासवत्यसमासवती चेति । तयोरपि प्रकारविशेषमाह-तत्र तयोर्धत्योर्मध्यात्समासवत्या वृत्तेस्तिस्रो रीतयो भवन्ति । रीतिभङ्गिविच्छित्तिरिति पर्यायाः॥
कास्ता इत्याह____पाञ्चाली लाटीया गौडीया चेति नामतोऽभिहिताः।
लघुमध्यायतविरचनसमासभेदादिमास्तत्र ॥ ४ ॥ पाञ्चालीति । चः समुच्चये । इति समाप्तौ । एतास्तिस्र एवेत्यर्थः । नामत इत्यनेन नाममात्रमेतदिति कथयति । न पुनः पञ्चालेषु भवा इत्यादि व्युत्पत्तितः । अतिप्रसङ्गात् । तर्हि केन विशेषेण तिस्र इत्याह-लघुमध्येत्यादि । लघु मध्यमायतं च विरचनं यस्य समासस्य तद्भेदात् । तत्रेत्युत्तरत्र योज्यते ॥ • अनियमे प्राप्ते नियमार्थमाह
द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत् ।
शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥ ५॥ द्वित्रिपदेति । द्वे त्रीणि वा यस्यां पदानि । द्वित्रिग्रहणस्योपलक्षणार्थत्वाचत्वारि वा समासवन्ति यस्यां सा पाञ्चाली रीतिर्भवति । यस्यां तु द्वितयादारभ्य पञ्च सप्त वा यावत्सा लाटीया । पञ्च सप्त वेति मतद्वयं तदुभयं संगृहीतम् । यस्यां तु समासवन्तः शब्दा अष्टभ्य आरभ्य यथाशक्ति भवन्ति । यावतः कर्तुं शक्नोति तावन्त इत्यर्थः । सा गौडीया ॥ नन्वाख्यातेऽपि पचति प्रपचतीति वृत्तिद्वैविध्यं कथं न स्यादित्यत आह
आख्यातान्युपसगैः संसृज्यन्ते कदाचिदोय ।
वृत्तेरसमासाया वैदर्भी रीतिरेकैव ॥ ६॥ आख्यातानीति । आख्यातानि तिङन्तक्रियापदान्युपसर्गः सार्धं संसृज्यन्ते, न तु समस्यन्ते । सुप्सुपेत्यधिकारात् । किं नित्यमेव । न । कदाचित्क्वचिदपि । किमर्थमित्याह-अर्थाय । यत उक्तम्-'धात्वर्थ बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥' तत्र बाधते यथा-प्रहरति प्रतिष्ठते इत्यादि । अनु. वर्तते यथा-प्रहन्ति अभिहन्ति । विशिनष्टि यथा-प्रपचतीत्यादि । इदानीमसमा. साया वृत्ते रीतिमाह-वृत्तेरसमासायाः समासरहितपदवृत्तेवैदर्भी नाम रीतिरेकैव । एताश्च रीतयो नालंकाराः, किं तर्हि शब्दाश्रया गुणा इति ॥ . पञ्चविधस्यापि शब्दस्य यत्रोपयोगस्तस्येदानी वाक्यस्य लक्षणं कर्तुमाह
वाक्यं तत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । .
समुदायः शब्दानामेकपराणामनाकासः ॥ ७ ॥ ...." वाक्यमिति । तत्रेति पञ्चविधशब्दमध्यादन्यतरवित्रादिभेदानां समुदायो वाक्यम् ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 188