SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। नाम्नामिति । नाम्नां वृत्तिर्वर्तनं द्वेधा, समासवत्यसमासवती चेति । तयोरपि प्रकारविशेषमाह-तत्र तयोर्धत्योर्मध्यात्समासवत्या वृत्तेस्तिस्रो रीतयो भवन्ति । रीतिभङ्गिविच्छित्तिरिति पर्यायाः॥ कास्ता इत्याह____पाञ्चाली लाटीया गौडीया चेति नामतोऽभिहिताः। लघुमध्यायतविरचनसमासभेदादिमास्तत्र ॥ ४ ॥ पाञ्चालीति । चः समुच्चये । इति समाप्तौ । एतास्तिस्र एवेत्यर्थः । नामत इत्यनेन नाममात्रमेतदिति कथयति । न पुनः पञ्चालेषु भवा इत्यादि व्युत्पत्तितः । अतिप्रसङ्गात् । तर्हि केन विशेषेण तिस्र इत्याह-लघुमध्येत्यादि । लघु मध्यमायतं च विरचनं यस्य समासस्य तद्भेदात् । तत्रेत्युत्तरत्र योज्यते ॥ • अनियमे प्राप्ते नियमार्थमाह द्वित्रिपदा पाञ्चाली लाटीया पञ्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥ ५॥ द्वित्रिपदेति । द्वे त्रीणि वा यस्यां पदानि । द्वित्रिग्रहणस्योपलक्षणार्थत्वाचत्वारि वा समासवन्ति यस्यां सा पाञ्चाली रीतिर्भवति । यस्यां तु द्वितयादारभ्य पञ्च सप्त वा यावत्सा लाटीया । पञ्च सप्त वेति मतद्वयं तदुभयं संगृहीतम् । यस्यां तु समासवन्तः शब्दा अष्टभ्य आरभ्य यथाशक्ति भवन्ति । यावतः कर्तुं शक्नोति तावन्त इत्यर्थः । सा गौडीया ॥ नन्वाख्यातेऽपि पचति प्रपचतीति वृत्तिद्वैविध्यं कथं न स्यादित्यत आह आख्यातान्युपसगैः संसृज्यन्ते कदाचिदोय । वृत्तेरसमासाया वैदर्भी रीतिरेकैव ॥ ६॥ आख्यातानीति । आख्यातानि तिङन्तक्रियापदान्युपसर्गः सार्धं संसृज्यन्ते, न तु समस्यन्ते । सुप्सुपेत्यधिकारात् । किं नित्यमेव । न । कदाचित्क्वचिदपि । किमर्थमित्याह-अर्थाय । यत उक्तम्-'धात्वर्थ बाधते कश्चित्कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्य उपसर्गगतिस्त्रिधा ॥' तत्र बाधते यथा-प्रहरति प्रतिष्ठते इत्यादि । अनु. वर्तते यथा-प्रहन्ति अभिहन्ति । विशिनष्टि यथा-प्रपचतीत्यादि । इदानीमसमा. साया वृत्ते रीतिमाह-वृत्तेरसमासायाः समासरहितपदवृत्तेवैदर्भी नाम रीतिरेकैव । एताश्च रीतयो नालंकाराः, किं तर्हि शब्दाश्रया गुणा इति ॥ . पञ्चविधस्यापि शब्दस्य यत्रोपयोगस्तस्येदानी वाक्यस्य लक्षणं कर्तुमाह वाक्यं तत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । . समुदायः शब्दानामेकपराणामनाकासः ॥ ७ ॥ ...." वाक्यमिति । तत्रेति पञ्चविधशब्दमध्यादन्यतरवित्रादिभेदानां समुदायो वाक्यम् ।
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy