________________
२ अध्यायः]
काव्यालंकारः।
पदम् । अत्र त्वकारवकारौ कृतादेशौ क्षीरनीरवदेकीभूताववनक्रियामेकमेवार्थमाहतुः । कश्चिदव्यकपृथगावयवः । यथा 'ऐः' इति क्रियापदम् । अत्र हि आकारैकारौ पूर्ववदेकीभूतौ सकारश्च कृतादेशत्वादव्यक्तीभूतः पृथगर्थश्च । यत ऐकार आगतिक्रियामाह, सकारो युष्मदर्थ कर्तारमेकत्वं चेति । चतुर्भेदत्वादनेकविद्यत्वम् । यदि वा द्रव्यजातिक्रियागुणवाचित्वेन चातुर्विध्यम् । अन्ये तु वक्ष्यमाणवक्रोक्त्याद्यलंकारभेदेन शब्दस्यानेकविधत्वमाहुः । यदि पुनः पश्चधेत्युत्तरपदापेक्षयानेकविधत्वमुच्यते तदा पञ्चधेत्यनर्थकं स्यात् । अनेनैवोक्तार्थत्वादिति । त चैवंरूपं शब्दं केचित्पाणिन्यादयः सुप्तिङन्तरूपतया द्विभेदमाहुः केचिच्चतुर्धेति । तद्वयं निरसितुमाह-स च भिन्नः पञ्चधा भवतीति । स
चेति चकारः पुनरर्थे । ततश्चायमर्थः । स पुनर्वर्णसमुदायात्मकः शब्दो भिन्नो भेदेन व्यवस्थापितः सन्पञ्चधा भवति । ते पुनः प्रकारा नामाख्यातनिपातोपसर्गकर्मप्रवचनीयलक्षणाः पुरो भङ्गयन्तरेण वक्ष्यन्ते ॥ अथ ये चतुर्धेत्याहुस्तेषामव्याप्तिदोषं प्रचिकटयिषुराह
नामाख्यातनिपाता उपसर्गाश्चेति संमतं येषाम् ।
तत्रोक्ता न भवेयुस्तैः कर्मप्रवचनीयास्तु ॥ २ ॥ नामेति । वस्तुवाचि पदं नाम । क्रियाप्रधानं तिङन्तमाख्यातम् । नामाख्यातयोः समुच्चयाद्यर्थप्रख्यातिनिमित्तं निपाताः । क्रियाविशेषप्रतिनिबन्धनमुपसर्गाः । चशब्द एवार्थे । इति परिसमाप्तौ । एत एव चत्वारः शब्दविधा इति येषां सम्यङ् मतं तत्र तेषु नामादिषु मध्ये तैर्मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः । तुरवधारणे भिन्नक्रमः । सप्तमीसंभावने । नैव संगृहीता भवन्तीति संभावयामि । यतस्तैरुपसर्गेष्वन्तर्भावः कृतः स चायुक्तः । विद्यते घुपसर्गेभ्यो नामादीनामिव कर्मप्रवचनीयानामपि पृथग्व्यापारभेदः । तथाहि--'वृक्षमभिविद्योतते विद्युत्' इति विद्युदृक्षयोर्लक्ष्यलक्षणसंबन्धोऽभिना द्योत्यते । उपसर्गेण तु क्रियाविशेषार्थाभिव्यक्तिरेव क्रियते । तथा कार्यभेदोऽपि तेषां दृश्यते । यथा षत्वणत्वादिकार्यस्योपसर्गा एव निमित्तम् । द्विवचनादिकस्य तु कर्मप्रवचनीया एवेति । तथा प्रयोगोऽप्युपसर्गाणां नियत एव प्राग्धातोः, न तु कर्मप्रवचनीयानामिति. कथमिवोपसर्गेष्वेषामन्तर्भावः । नन्वव्ययानि खरादीनि भेदान्तरं विद्यत इति कथं षोढा न स्यादित्ययुक्तम् । स्वरादीनां स्वर्गादिमत्त्वभूतार्थवाचकत्वेन नामस्वेवान्तर्भावात् । यदि वा नरुक्तानामव्ययानि निपात एवेति निपातग्रहणेन तेषां संग्रहः । गतयोऽप्युपसर्गा एवेति पञ्चधा शब्द इति स्थितम् ॥
ननु तथाप्युपगुराजपुरुषादयः शब्दसमुदाया व्यतिरिका विद्यन्त इति कथमुक्तं पञ्चधेत्याशङ्कयाह
नाम्नां वृत्तिधा भवति समासासमासभेदेन । ..... वृत्तेः समासवत्यास्तत्र स्यू रीतयस्तिसः ॥ ३॥ ..