________________
काव्यमाला।
ननु काव्यादेवंविधयशोभवने प्रमाणाभावाद्देवगृहादिकमेव कारयितव्यमित्येतन्निरस्यन्दृष्टान्तपुरःसरं काव्यकरणे यत्नोपदेशमाह
अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी ___ भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो
जगति सकले व्यासादीनां विलोक्य परं यशः ॥ २२ ॥ अमर इति । सुगमम् । तस्मात्स्थितमेतत्कवेः काव्यकरणादेव परं यशो भवतीति । उक्तं च-'यतः क्षणध्वंसिनि संभवेऽस्मिन्काव्यादृतेऽन्यत्क्षयति सर्वम् । अतो महद्भिर्यशसे स्थिराय प्रवर्तितः काव्यकथाप्रसङ्गः ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतः
प्रथमोऽध्यायः समाप्तः।
द्वितीयोऽध्यायः। शास्त्रस्य काव्यकरणस्य च प्रयोजनमाख्यायेदानी काव्यलक्षणं पृष्टः सन्नाह
ननु शब्दार्थों काव्यं शब्दस्तत्रार्थवाननेकविधः ।
वर्णानां समुदायः स च भिन्नः पञ्चधा भवति ॥ १ ॥ नन्विति । ननुशब्दः पृष्टप्रतिवचने । यथा 'अपि त्वं कटं करिष्यसि । ननु भोः करोमि' इति । शब्दश्चार्थश्च तौ काव्यमुच्यते । कवेः कर्माभिप्रायो वेति शब्दार्थः । कवेः काव्योपयोगिनोः शब्दार्थयोरन्योन्याव्यभिचारादेकतरोपादानेनैव द्वितीये लब्धे द्वितीयोपादानं काव्ये द्वयस्यापि प्राधान्यख्यापनार्थम् । अन्यथा हि शब्दार्थयोरेकतरोपादानेऽन्यतरस्यालंकाविरहितमपि दोषैश्च युक्तमपि काव्यं साधु स्यात् । अद्वयोपादाने न तुल्यकक्षतया शब्दार्थों द्वावपि काव्यत्वेनाङ्गीकृतौ भवतः। द्वयमेतत्समुदितमेव काव्यं भवतीति तात्पर्यम् । शब्दार्थों काव्यमित्युक्तम् , अथ शब्दः किमुच्यत इत्याह-शब्दस्तत्रार्थवाननेकविधो वर्णानां समुदाय इति । तत्रेति शब्दार्थयोर्मध्यात् । शब्दोऽर्थवान् । साभिधेयोऽनेकविधोऽर्थवानिति स्वरूपविशेषणमात्रम् । यथा । कीदृशः शक्रः । वज्री सहस्राक्ष इति । न तु व्यवच्छेदकम् । काव्यलक्षणाख्यानेनैव निरर्थकस्य निरस्तत्वात् । कीदृशः शब्दः । वर्णानामकारादीनां समुदायः । वर्णानामिति बहुवचनमतन्त्रम् । तेनैकवर्णो द्विवर्णश्च शब्दः सिद्धो भवति । सोऽपि संभवतः कियद्भेद इत्याह-अनेकविधः। तद्यथा। कश्चिद्यक्तैकार्थावयवः । यथा घट इति । अत्र हि घकारादयो वर्णा व्यक्ताः प्रकटाः संभूय कुम्भाख्यमेकमर्थमाहुः । कश्चियक्तपृथगावयवः । यथा एति पचतीति वा। अत्र हि एकारादयो वर्णा व्यक्ताः पृथगर्थाश्च । तथापि हि धातुना क्रियाभिधीयते प्रत्ययेन तु कर्ता । कश्चिदव्यक्तैकार्थावयवः। यथ संपदादित्वाविपि कृते 'अवनं ऊः' इति