Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 14
________________ २ अध्यायः] काव्यालंकारः। पदम् । अत्र त्वकारवकारौ कृतादेशौ क्षीरनीरवदेकीभूताववनक्रियामेकमेवार्थमाहतुः । कश्चिदव्यकपृथगावयवः । यथा 'ऐः' इति क्रियापदम् । अत्र हि आकारैकारौ पूर्ववदेकीभूतौ सकारश्च कृतादेशत्वादव्यक्तीभूतः पृथगर्थश्च । यत ऐकार आगतिक्रियामाह, सकारो युष्मदर्थ कर्तारमेकत्वं चेति । चतुर्भेदत्वादनेकविद्यत्वम् । यदि वा द्रव्यजातिक्रियागुणवाचित्वेन चातुर्विध्यम् । अन्ये तु वक्ष्यमाणवक्रोक्त्याद्यलंकारभेदेन शब्दस्यानेकविधत्वमाहुः । यदि पुनः पश्चधेत्युत्तरपदापेक्षयानेकविधत्वमुच्यते तदा पञ्चधेत्यनर्थकं स्यात् । अनेनैवोक्तार्थत्वादिति । त चैवंरूपं शब्दं केचित्पाणिन्यादयः सुप्तिङन्तरूपतया द्विभेदमाहुः केचिच्चतुर्धेति । तद्वयं निरसितुमाह-स च भिन्नः पञ्चधा भवतीति । स चेति चकारः पुनरर्थे । ततश्चायमर्थः । स पुनर्वर्णसमुदायात्मकः शब्दो भिन्नो भेदेन व्यवस्थापितः सन्पञ्चधा भवति । ते पुनः प्रकारा नामाख्यातनिपातोपसर्गकर्मप्रवचनीयलक्षणाः पुरो भङ्गयन्तरेण वक्ष्यन्ते ॥ अथ ये चतुर्धेत्याहुस्तेषामव्याप्तिदोषं प्रचिकटयिषुराह नामाख्यातनिपाता उपसर्गाश्चेति संमतं येषाम् । तत्रोक्ता न भवेयुस्तैः कर्मप्रवचनीयास्तु ॥ २ ॥ नामेति । वस्तुवाचि पदं नाम । क्रियाप्रधानं तिङन्तमाख्यातम् । नामाख्यातयोः समुच्चयाद्यर्थप्रख्यातिनिमित्तं निपाताः । क्रियाविशेषप्रतिनिबन्धनमुपसर्गाः । चशब्द एवार्थे । इति परिसमाप्तौ । एत एव चत्वारः शब्दविधा इति येषां सम्यङ् मतं तत्र तेषु नामादिषु मध्ये तैर्मेधाविरुद्रप्रभृतिभिः कर्मप्रवचनीया नोक्ता भवेयुः । तुरवधारणे भिन्नक्रमः । सप्तमीसंभावने । नैव संगृहीता भवन्तीति संभावयामि । यतस्तैरुपसर्गेष्वन्तर्भावः कृतः स चायुक्तः । विद्यते घुपसर्गेभ्यो नामादीनामिव कर्मप्रवचनीयानामपि पृथग्व्यापारभेदः । तथाहि--'वृक्षमभिविद्योतते विद्युत्' इति विद्युदृक्षयोर्लक्ष्यलक्षणसंबन्धोऽभिना द्योत्यते । उपसर्गेण तु क्रियाविशेषार्थाभिव्यक्तिरेव क्रियते । तथा कार्यभेदोऽपि तेषां दृश्यते । यथा षत्वणत्वादिकार्यस्योपसर्गा एव निमित्तम् । द्विवचनादिकस्य तु कर्मप्रवचनीया एवेति । तथा प्रयोगोऽप्युपसर्गाणां नियत एव प्राग्धातोः, न तु कर्मप्रवचनीयानामिति. कथमिवोपसर्गेष्वेषामन्तर्भावः । नन्वव्ययानि खरादीनि भेदान्तरं विद्यत इति कथं षोढा न स्यादित्ययुक्तम् । स्वरादीनां स्वर्गादिमत्त्वभूतार्थवाचकत्वेन नामस्वेवान्तर्भावात् । यदि वा नरुक्तानामव्ययानि निपात एवेति निपातग्रहणेन तेषां संग्रहः । गतयोऽप्युपसर्गा एवेति पञ्चधा शब्द इति स्थितम् ॥ ननु तथाप्युपगुराजपुरुषादयः शब्दसमुदाया व्यतिरिका विद्यन्त इति कथमुक्तं पञ्चधेत्याशङ्कयाह नाम्नां वृत्तिधा भवति समासासमासभेदेन । ..... वृत्तेः समासवत्यास्तत्र स्यू रीतयस्तिसः ॥ ३॥ ..

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 188