Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१ अध्यायः]
काव्यालंकारः। विस्तरत इति । व्युत्पत्तिसंबन्धिनो विस्तारात्किमन्यद्विद्यते यदन्तःपाति न भवति । कुत इत्याह-यस्मादिह लोके न तद्वाच्यमभिधेयमस्ति, न वाचकः शब्दो विद्यते यकाव्याङ्गं काव्योपकरणं न भवतीति । ततो हेतोरेषान्या विस्तृता व्युत्पत्तिः । ततः संक्षेपाद्वा सकाशात् । अन्येति द्वितीया । सर्वज्ञत्वमेव विस्तीर्णा व्युत्पत्तिरित्यर्थः । उक्तं च-'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहो भारो महान्कवेः ॥' अभ्यासो लोकप्रसिद्ध एव ॥ केवलं तस्य स्थाननियमं कर्तुमाह
अधिगतसकलज्ञेयः सुकवेः सुजनस्य संनिधौ नियतम् ।
नक्तंदिनमभ्यस्येदभियुक्तः शक्तिमान्काव्यम् ॥ २० ॥ अधिगतेति । वाक्यार्थः सुगमः । अत्राह-ननु यद्यधिगतसकलज्ञेयः शक्तिमांश्च तत्किं सुजनस्य सुकवेः संनिधानेऽभ्यस्यति । सत्यम् । छन्दोव्याकरणादिविषयलक्षणातिरिक्तमन्यदपि ज्ञेयं जानाति । यन्महाकविलक्ष्येषु दृश्यते । सुजनत्वाच्च निर्मत्सरो भूत्वा सर्वमसौ दर्शयति । तथाहि । छन्दसि पिङ्गलजयदेवाद्यनुक्तान्यपि वृत्तानि सुकविकाव्येषु दृश्यन्ते बहुशः । यथा माघस्य-'कृतसकलजगद्विबोधो विधूतान्धकारोदयः क्षपितकुमुदतारकश्रीर्वियोगं नयन्कामिनः । गुरुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ॥' तथा भारवेः-'इह दुरधिगमैः किंचिदेवागमैः सततमसुतरं वर्णयन्त्यन्तरम् । अमुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥' एवमन्येषामपि सन्ति । तथा व्याकरणे वर्वर्टि-अजर्घाः-सस्ति-दर्दृष्टिईटे-ईÉति-जिह्वायकयिषति-अडिडिषतीत्येवमादीनि पदानि न प्रयोज्यानि । काव्यस्य माधुर्यलालित्यविनाशप्रसङ्गात् । तथा क्षपि-मिलि-अर्थि-वचि-क्लीबप्रभृतयो धातवो धातुगणेषु पठिता अपि । सहेश्च परस्मैपदं प्रयोगदर्शनात्प्रयोक्तव्यम् । पदविषयं च यथा पक्ष्मशब्दोऽक्षिरोमस्खभिधानेषु पठितोऽन्यत्रापि दृश्यते । यथा माघस्य–'निसर्गचित्रोजवलसूक्ष्मपक्ष्मणा' इति । एवमन्यदपि कलादिविषये द्रष्टव्यम् । यत्सुजनकविसंनिधानाज्ज्ञेयम् । नियतमित्यनेन सुकविसंनिधान एवाभ्यासः कार्य इति नियम इति । नक्तंदिनमित्यनेन तु यदैव पट्टी बुद्धिःक्षणश्च भवति तदैवाभ्यस्येत् , न पुनर्यथा कैश्चिदुक्तम् 'पश्चाद्राने एव' । इति तु कवेः काव्यकरणेऽत्यन्तादराधानार्थम् ॥ · पुनः काव्यस्य प्रयोजनान्तरमाह
स्फारस्फुरदुरुमहिमा हिमधवलं सकललोककमनीयम् ।
कल्पान्तस्थायि यशः प्राप्नोति महाकविः काव्यात् ॥ २१ ॥ स्फार इति । स्फारो दृढः, स्फुरञ्जनमनःसु प्रसरन् , अत एवोरुविस्तीर्णो महिमा यस्य कवेः सः। तथा यशः कीदृशम् । हिमधवलमित्यादि सुगमम् ॥ . १. माघश्लोकस्य महामालिनीछन्दः, भारविश्लोकस्य च क्षमाछन्द इति टीकायां मल्लिनाथः.

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 188