Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 10
________________ १ अध्यायः] काव्यालंकारः। . काव्यकरणे प्रयोजनाप्रमेयतामाह कियदथवा वच्मि यतो गुरुगुणमणिसागरस्य काव्यस्य । कः खलु निखिलं कलयत्यलमलघुयशोनिदानस्य ॥ ११ ॥ कियदिति । कियदथ वा भण्यते । यतो यथा सागरे मणीनामानन्यमेवं काव्ये । गुणानामपीति तात्पर्यम् । खलुनिश्चये ॥ एवं प्रयोजनानन्त्ये सति कृत्यमाह तदिति पुरुषार्थसिद्धिं साधुविधास्यद्भिरविकलां कुशलैः । अधिगतसकलज्ञेयैः कर्तव्यं काव्यममलमलम् ॥ १२ ॥ तदिति । तस्मात्पुरुषार्थसिद्धिं पूर्णा चिकीर्षुभिः काव्यं कर्तव्यम् । कीदृशैः । अधिगतसकलज्ञेयैः । न त्वनीदृशामपि काव्यकरणं संभवतीत्याह-अलममलम् । सनिर्मलकरणेऽन्येषामसार्थ्यमित्यभिप्रायः ॥ ननु ज्ञातसकलज्ञेयस्य तत्त्वादेव पुरुषार्थसिद्धिर्भविष्यति, किं काव्यकरणेनेत्याह फलमिदमेव हि विदुषां शुचिपदवाक्यप्रमाणशास्त्रेभ्यः । यसंस्कारो वाचां वाचश्च सुचारुकाव्यफलाः ॥ १३ ॥ फलमिति । हि यस्माजानतामिदमेव ज्ञानफलं यच्छुचिपदवाक्यप्रमाणशास्त्रेभ्यो विशदव्याकरणतर्कग्रन्थेभ्यः सकाशात्संस्कारो वाचाम् । ननु वाक्संस्कारस्यापि किं फलमित्याह-वाचश्च सुचारुकाव्यफलाः । चः समुच्चये । सुन्दरकाव्यकरणमेव वाक्संस्कारस्य फलमित्यर्थः ॥ यथा च काव्यं चारु भवति, यथा च चारु कर्तुं ज्ञायते तथाह तस्यासारनिरासात्सारग्रहणाच्च चारुणः करणे । त्रितयमिदं व्याप्रियते शक्तियुत्पत्तिरभ्यासः ॥ १४ ॥ तस्येति । तस्य काव्यस्यासारनिरासादसमर्थादिवक्ष्यमाणदोषत्यागात् , तथा सारग्रहणाद्वक्रोक्तिवास्तवाद्यलंकारयोगाद्धेतोः, चारुत्वगुणोपेतस्य करणे त्रितयमिदं शक्तिव्युत्पत्त्यभ्यासलक्षणं व्याप्रियते । तस्य तत्र व्यापार इत्यर्थः । तथा च दण्डी-'नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् । अमन्दाश्चाभियोगोऽस्याः कारणं काव्यसंपदः ॥' तत्र शक्त्या शब्दार्थों मनसि संनिधीयते । तयोः सारासारग्रहणनिरासौ व्युत्पत्त्या क्रियेते । अभ्यासेन शक्तरुत्कर्ष आधीयत इति शक्त्यादिव्यापारः । असारनिरासात्सारग्रहणादिति च पदद्वयोपादानमुभययोगेन चारुत्वमिति ख्यापनार्थम्। तत्राप्यसारस्य प्रागुपन्यासस्तनिरासस्य प्राधान्यख्यापनार्थः । सकलालंकारयुक्तमपि हि काव्यमेकेनापि दोषेण दुष्येत, अलंकृतं वधूवदनं काणेनेव चक्षुषा । उक्तं च [दण्डिना]-'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 188