Book Title: Kavyalankar Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri Publisher: Tukaram Jawaji View full book textPage 9
________________ काव्यमाला अथ यदि नाम राज्ञां यशस्तन्वन्ति तथापि किं तेषां यत्ते काव्यकृतौ प्रवर्तन्त इत्याह इत्थं स्थास्नु गरीयो विमलमलं सकललोककमनीयम् । यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम् ॥ ६॥ इत्थम् 'स्फुटमाकल्पमनल्पम् ' (१1४ ) इत्यनेन प्रकारेण, स्थास्नु स्थिरतरम् गरीयः प्रभूतम्, दोषाभावाच्च विमलम्, अलमत्यर्थम्, सकललोककमनीयं सकलजनकान्तम्, यः कविर्थस्य राजादेर्यशस्तनुते तेन कथं तस्य नोपकृतम् । सर्वथोपकृतं भवतीत्यर्थः ॥ ननु यदि कविना परस्योपकृतम्, ततोऽपि किं तस्येत्याहअन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र ॥ ७ ॥ गतार्थ न वरम् । चकारोऽन्योपकारकरणं चेत्यत्र योज्यः ॥ एवं धर्म एव कवेः काव्यकरणे प्रयोजनमित्यभिधायार्थकाममोक्ष हेतुत्वमप्याहअर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य । विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ॥ ८ ॥ अर्थमिति । अर्थोधनम्, अनर्थोपशमो विपदभावः, शं सुखम्, असममसाधारणम् । इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम् । अथवा किमेभिर्बहुभिरुक्तैर्यदेवास्य कवेः संमतं तदेवाप्नोतीति । कीदृशः । विरचितसदलं कारदेवतास्तुतिः ॥ किमत्र प्रमाणमिति चेदित्याह - नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम् । अपरे रोगविमुक्तिं वरमन्ये लेभिरेऽभिमतम् ॥ ९ ॥ नुत्वेति । तथाहीत्युदाहरणोपदर्शने । दुर्गाग्रहणं देवतोपलक्षणार्थम् । तथाहि केचिदनिरुद्धादयः शत्रुवश्यादिकां विपदं तीर्णाः । केचिद्वीरदेवादयो नीरुजत्वं प्रापुः । अपरे शत्रुघ्नप्रभृतयोऽभिमतं वरं लब्धवन्तः । एवमन्येऽप्युदाहरणत्वेन तथाविधा ज्ञेया इति ॥ इह केचिद्विक्रमादित्यादिजनितं कविजनसत्कारं श्रुत्वाधुनातननृपेभ्यस्तथानवलोक्य प्रेरयेयुर्यथा नृपेभ्यः सकाशान्न किंचित्फलं तथा देवताभ्योऽपि सांप्रतं न काव्येन किंचि त्फलं भविष्यतीत्याशङ्कयाह आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः । अद्याप एव सुरा यदि नाम नराधिपा अन्ये ॥ १० ॥ स्फुटार्थे न वरम् । यदि नामेति नामशब्दः परं शब्दार्थे । यदि परं नृपाः । अन्ये देवास्तु त एवेति ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 188