________________
काव्यमाला
अथ यदि नाम राज्ञां यशस्तन्वन्ति तथापि किं तेषां यत्ते काव्यकृतौ प्रवर्तन्त
इत्याह
इत्थं स्थास्नु गरीयो विमलमलं सकललोककमनीयम् ।
यो यस्य यशस्तनुते तेन कथं तस्य नोपकृतम् ॥ ६॥
इत्थम् 'स्फुटमाकल्पमनल्पम् ' (१1४ ) इत्यनेन प्रकारेण, स्थास्नु स्थिरतरम् गरीयः प्रभूतम्, दोषाभावाच्च विमलम्, अलमत्यर्थम्, सकललोककमनीयं सकलजनकान्तम्, यः कविर्थस्य राजादेर्यशस्तनुते तेन कथं तस्य नोपकृतम् । सर्वथोपकृतं भवतीत्यर्थः ॥ ननु यदि कविना परस्योपकृतम्, ततोऽपि किं तस्येत्याहअन्योपकारकरणं धर्माय महीयसे च भवतीति । अधिगतपरमार्थानामविवादो वादिनामत्र ॥ ७ ॥ गतार्थ न वरम् । चकारोऽन्योपकारकरणं चेत्यत्र योज्यः ॥ एवं धर्म एव कवेः काव्यकरणे प्रयोजनमित्यभिधायार्थकाममोक्ष हेतुत्वमप्याहअर्थमनर्थोपशमं शमसममथवा मतं यदेवास्य ।
विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ॥ ८ ॥
अर्थमिति । अर्थोधनम्, अनर्थोपशमो विपदभावः, शं सुखम्, असममसाधारणम् । इह लोके कामजं परत्र तु पारम्पर्येण मोक्षजम् । अथवा किमेभिर्बहुभिरुक्तैर्यदेवास्य कवेः संमतं तदेवाप्नोतीति । कीदृशः । विरचितसदलं कारदेवतास्तुतिः ॥
किमत्र प्रमाणमिति चेदित्याह -
नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम् ।
अपरे रोगविमुक्तिं वरमन्ये लेभिरेऽभिमतम् ॥ ९ ॥
नुत्वेति । तथाहीत्युदाहरणोपदर्शने । दुर्गाग्रहणं देवतोपलक्षणार्थम् । तथाहि केचिदनिरुद्धादयः शत्रुवश्यादिकां विपदं तीर्णाः । केचिद्वीरदेवादयो नीरुजत्वं प्रापुः । अपरे शत्रुघ्नप्रभृतयोऽभिमतं वरं लब्धवन्तः । एवमन्येऽप्युदाहरणत्वेन तथाविधा ज्ञेया इति ॥
इह केचिद्विक्रमादित्यादिजनितं कविजनसत्कारं श्रुत्वाधुनातननृपेभ्यस्तथानवलोक्य प्रेरयेयुर्यथा नृपेभ्यः सकाशान्न किंचित्फलं तथा देवताभ्योऽपि सांप्रतं न काव्येन किंचि त्फलं भविष्यतीत्याशङ्कयाह
आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः । अद्याप एव सुरा यदि नाम नराधिपा अन्ये ॥ १० ॥
स्फुटार्थे न वरम् । यदि नामेति नामशब्दः परं शब्दार्थे । यदि परं नृपाः । अन्ये देवास्तु त एवेति ॥